________________
२०८ ईश्वरस्य जगत्कर्तृत्वनिरासः।
. [२. २६ (१०) इन्द्रियप्रभवप्रभालम्बनीभूत इति नायनरम्याश्रयीभृतः । उपद्रव इति एकदेशे प्रत्यक्षबाधः। व्याप्तिप्रतिपादनप्रत्यल मिति । अनुमानं हि गृहीतव्याप्तिकं प्रवर्तते । व्याप्तिच श्यक्षेण गृह्यते भवता । तवति नैयायिकस्य । इन्द्रियोद्भवेत्यादि गद्ये वैद्यशब्देन दृश्यम् । अन्यथेति 'दृश्यत्वाभावे । तेनेति इन्द्रियवेदनेन । ततोऽपीति तताच । तत्रेति अनुमाने । तेन बुद्धिमन्निमित्तेनेति अदृदयेन बुद्धिमता वा । अनुमेयता नाद्रियत इति व्याफ्यनालम्बनीभूतं साध्यं न भवतीत्यर्थः । तथात्वेनेति व्याप्त्यालम्बनत्वेन । एतदिति बुद्धिमन्निमित्तम् । इन्द्रियबोधावबोध्यतयेति प्रत्यक्षग्राह्यतया । तथेति इन्द्रियबोधावबोध्यतया ।
विधीयमानानुमानेनेति बहुबाहिः । तद्दनालम्वनीभूत इति इन्द्रियानाश्रयीभृतः । तेनेति इन्द्रियवेदनेन । वुद्धिमन्निमित्तमिति बुद्धिमच्च तन्निमित्तं च । तथाविधधर्मीत्यादि गये तथाविध इति प्रत्यक्षबाधितः । व्याप्यशब्देन हेतुः । तुरीयव्याप्याभत्वोपनिपात इति कालात्ययापदिष्टोपनिपातः । अनियतप्रतिपत्तिनिमित्ततेति अनेकान्तिकत्वम-निमित्ताधीनात्मलाभत्वमपि भविष्यति, बुद्धिमद्विधयत्वमपि न भविष्यति इति भावः ।।
(टि.) ननु भवतीत्यादि । एतद्विधानेति भभूधरादिजनकः । इन्द्रियप्रभवेति प्रत्यक्षज्ञानविलोकनीयः । मानमिति प्रमाणम् । इन्द्रियद्वारेति प्रत्यक्षज्ञानम् । न हि प्रत्यक्षज्ञानमन्तरेण स्वन्मतेऽपि व्याप्तिः संभवति । पारावारेति वडवानलः । औदर्येति जटरसंभूतवह्निः, तयोरितरः सामान्यः पर्वतावष्टब्धो वा, तेषां सामान्येन । इन्द्रियोद्भवेति प्रत्यक्षज्ञानज्ञेयपदार्थाधारश्रितेन । अन्यथेति दृश्यत्वाभावे । तेनेति ऐन्द्रियज्ञानेन । ततोऽपीति ततश्च । तत्रेति साधने । व्याप्त्यनालम्बेति अदृश्येन बुद्धिमत्कम् । अनुमेयेति व्याफ्यनालम्बनीभूतं साध्यं न भवतीत्यर्थः । तथात्वेनेति अनुमेयतया । एतदिति युद्धिमन्निमित्तम् । अत्रेति अनुमाने । इन्द्रियबोधेति प्रत्यक्षवेदनवेद्यतया । यदि तु तथेति प्रत्यक्षज्ञेयतया । एतदिति बुद्धिमत्पूर्वकम् । ततोऽनेनेति ऐन्द्रिय प्रत्यक्षेण । अत्रेति अनुमानधर्मिणि अंशेन ।
अनेनेति एन्द्रियप्रत्यक्षेण । तत्रापीति कृशानुविपयाऽनुमानेपि । विधीयमानेति विधीयमानमनुमानं येन स तथा तेनाऽत्र बहुव्रीहिः । तदनालम्बेति इन्द्रियगोचरातीतः। तेनेति ऐन्द्रियेण । यदा पुनरित्यादि । तत्रेति वहिमपर्वतादिप्रदेशे । तेनेति प्रमात्रा । तत्रेति तरुमूलो. पविष्टेनाऽपि । तत्रेति वृक्षादौ बुद्धिमन्निमित्तपूर्व के साध्ये । इन्द्रियोद्भवेति प्रत्यक्षज्ञानवाधा । तथाविधेति प्रत्यक्षबाधितधर्मधर्म्यनन्तरम् । व्याप्येति हेतुप्ररूपणात् । तुरीयेति त्वत्ताभिप्रायेण कालात्ययापदिष्ट हेत्वाभासोपद्रवः । मन्मतेनेति मम तके-परितणन्यायेन । व्याप्यपराभूतिरिति अनेकान्तिक त्वमित्यर्थः । ___तथेदं निमित्ताधीनात्मलाभत्वं यदि तन्मात्रमेव व्याप्यत्वेन प्रतिपाद्यते, तदा नाभिप्रेतपदार्थप्रतीतिनिर्वर्तनपर्याप्तमनुपलब्धपूर्वोत्पत्तिव्यापारेन्द्रमों मर्यपूर्ववप्रतीत्यर्थोपात्तमृन्मयत्ववत् । न नाम निपेन्द्रमृ मृन्मयत्वमपि भिद्यते । ननु यद्यपि मृन्मयत्वं तुल्यमेवोभयत्रापि, तथापि नेन्द्रमूर्धाऽन्यो मानवपूर्ववेन प्रतीतो विद्यते । ततो विवादपदापन्नोऽप्ययं तत्तुल्यत्वेन न मयंनिर्वयों भवति । तद् नावदातम्, यतोऽत्रापि न भूभू
१. भवताम्-मु २. अदृश्य इति पाटो मुद्रिते प्रतौ च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org