________________
१९२
सर्वज्ञत्वसिद्धिः ।
[२. २३
असर्ववित्त्वं चेत् । कस्तत्र हेतुः-उपलब्धिः, अनुपलब्धिर्वा ? उपलब्धिश्चेत्, अविरुद्धो. पलब्धिः विरुद्धोपलब्धिर्वा ! । अविरुद्धोपलब्धिस्तावद् व्यभिचारिणि, नित्यत्वनिषेधाभिधीयमानप्रमेयत्ववत् । विरुद्धोपलब्धिस्तु किं स्वभावविद्रोपलब्धिः, विरुद्धव्याप्तोपलब्धिः,विरुद्धकार्योपलब्धिः, विरुद्ध कारणोपलब्धिः, विरुद्धसहचरायुपलब्धिर्वा स्यात् ? नाद्या, सर्वज्ञत्वेन साक्षाद् विरुद्धस्य किञ्चिज्ञत्वस्य तत्र प्रसाधकप्रमाणाभावात् । नागेतनविकल्पचतुष्टयमपि घटामटाट्यते । प्रतिपेध्यस्य हि सर्ववित्त्वस्य विरुद्धं किञ्चिज्ज्ञत्वम् । तस्य च व्याप्यं कतिपयार्थसाक्षात्कारित्वम् , कार्य कतिपयार्थप्रज्ञापकत्वम्, कारणमावरणक्षयोपशमः, सहचरादि रागद्वेषादिकम् । न च विवादापेदाने पुंसि तेपामन्यतमस्यापि प्रसाधकं किञ्चित् प्रमाणं तवाऽस्ति, यतस्तदपलब्धीनां सिद्धिः स्यात् ।
वक्तृत्वरूपाविरुद्धकार्योंपलब्धिरस्त्येव तन्निपेधे साधनं साधिष्ठमिति चेत् । ननु कीटग् वक्तृत्वमत्र विवक्षाञ्चक्रे, यत्सर्ववित्त्वविरुद्धस्य कार्य स्यात्- प्रमाणविरुद्धार्थवक्तृत्वम्, तदविरुद्धार्थवक्तृत्वम् . वक्तृत्वमानं वा ! आद्यभिदायाम् , असिद्धं साधनम् , वर्धमानादौ भगवति तथाभूतार्थवक्तृत्वाभावात् । द्वितीयभिदि तु, नेयं विरुद्ध कार्योपलब्धिः, किन्तु कार्योपलब्धिरेव तद्विधिसाधनी, धूमध्वसिद्धिनिबन्धनोपन्यस्तधूमोपलब्धिवत् । तथा च विरुद्धो हेतुः । तृतीयभेदे त्वनेकान्तः, वक्तृत्वमात्रे सर्ववित्त्वकार्यत्वस्याविरोधात् ।
अनुपलब्धिरपि विरुद्धानुपलब्धिः, अविरुद्धानुपलब्धिर्वा ? विरुद्धानुपलब्धिस्तावद् विधिसिद्धावेव साधीयस्तां दधाति, अनेकान्तात्मकं वस्तु एकान्तस्वरूपानुपलब्धेः, इत्यादिवत् । अविरुद्धानुपलब्धिरपि स्वभावनुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, सहचराद्यनुपलब्धिर्वाऽभिधीयेत ! स्वभावानुपलब्धिरपि सामान्येन, उपलब्धिलक्षणप्राप्तत्वविशेषणा वा व्याक्रियेत ? पौरस्त्या तावत् , निशाचरादिना व्यभिचारिणी । द्वितीया पुनरसिद्धा, सर्ववित्वस्य स्वभावविप्रकृष्टत्वात् । व्यापकानुपलब्धिप्रभृतयोऽपि विकल्पा अल्पीयांसः, यतः सर्ववित्त्वस्य व्यापकं सकलार्थसाक्षात्कारित्वम् , कार्यमतीन्द्रियवस्तूपदेशः, कारणमखिलावरणविलयः, सहचरादि क्षायिकचारित्रादिकम् । न च तत्र तदनुपलब्धीनां सिद्धौ साधनं किञ्चित् तेऽस्ति, इत्यसिद्धा एवाऽमः ।
अथ सर्वज्ञादन्यः कश्चिद् धर्मी, तर्हि तस्याऽसर्ववित्वे साध्ये सिद्धसाध्यता। तद् नानुमानं तद्बाधकम् ||
અપ્રત્યક્ષને સકલ પ્રત્યક્ષનું બાધક કહો તે અપ્રત્યક્ષ એટલે પ્રત્યક્ષાભાવમાત્ર છે કે અન્ય પ્રમાણુરૂપ અર્થાત પ્રત્યક્ષથી ભિન્ન પ્રમાણરૂપ છે ?
किं साक्षाद् विरु० मु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org