________________
चाक्षुपाप्राप्यकारित्वविचारः ।
केविति आत्मादिषु । यस्त्विति मनसः प्राप्य कारिन्यवादो वैशेषिकादिः । व्यभिचार इति कारकत्व हेतोरने कान्तिकायम । वो भावः ! अतीतवस्तुविषयस्य मनसः शब्दस्य च यद्यपि चिन्तकत्वेनार्थप्रकाशकत्वेन च कारकत्वमस्ति तथापि प्राप्यकारित्वं नास्ति विषयस्यातीतत्वात् ।।६४।। अयस्कान्तादनेकान्त इति । स हि कारकमस्ति परं अप्राप्यकारी । अत्रेति कारकत्वहेतौ ।।६५। मतमिति भवता इप्टम् । प्राप्य वस्त्वित्यादि चक्षुः कर्तृ वस्त प्राप्य मति नैव वितनोतीति योजना ॥६६॥ तत्रेति नयने ।।६७||
(टि.) अथापीत्यादि । एतत्पतीति एतस्य मन्त्रस्याधिष्ठातृदेव्या। सेति अधिष्ठात्री । स्वयोगिनीमिन्यात्मसम्बद्धाम् ।।६१।। आश्रयेत्यादि । परम्परापक्षस्य परिहारः । आश्रयस्य गगनस्य द्वारेग मंत्रवर्णविसरो गगने संसज्यते. अकाशं पक्ष्मलाझ्या इत्यपि नघटते। व्यापकेति आकाशात्मनोः । अमुनेति भवदाचार्येण ।।६।। व्यापकेप्वित्यादि । यतिपतमिति संयोगम् । तेनेति भयतां चतुर्णा मध्ये केनापि । य इति मनसः प्राप्यकारित्यवादिवेशेपिकादिः । मनसेति अप्राप्यकार्यपि मनो निश्च कारकम् । व्यभिचारः कारकत्वाख्यहेतोः । कारकत्वहेतोरनैकान्ति: कत्वम् । को भावः ? अतीतवस्तुविषयस्य मनसः, शब्दस्य च, यद्यपि चिन्तकत्वेनार्थप्रकाशकत्वेन च कारकत्वमस्ति, तथापि प्राप्यकारित्वं नास्ति, विपयस्यातीतत्वात् । अयस्कान्तो हि कारकमस्ति परमप्राप्यकारी ॥६४-६५॥ अद्रिचन्द्रेत्यादि । ते इति रश्मयः। तत्रेति चक्षुषि । व्यपाकता इति पूर्वोकप्रकारेण निराकृताः ॥६७।।
चक्षुरप्राप्य धीकृद व्यवधिमतोऽपि प्रकाशकं यस्मात् । अन्तःकरणं यद् व्यतिरेके स्यात् पुना रसना ।।६८।। अथ दुमादिव्यवधानभाजः प्रकाशकत्वं ददृशं न दृष्टो । ततोऽप्ययं हेतुरसिद्धतायां धाग्यभावं विभगम्बभूव ॥६९।। एतन्न युक्तं शतकोटिकाचस्वच्छोदकस्फाटिकभित्तिमुरत्यः । पदार्थपुजं व्यवधानभाजि संजायते कि नयनाद न संवित् ! ॥७॥ दम्भोलिप्रति प्रभिद्य भिदुराश्चेद गेचिपश्चक्षुषः
संसगांपगताः पदार्थपटली पश्यन्ति तत्र स्थिताम् । एवं तर्हि समुच्छ-टन्मलभर भिन्वा जलं तक्षणात् ।
तेनाऽप्यन्तरितस्थितीननिमिपानालोकयेयुर्न किम् ? ।।७१ ।। विध्यातास्तेन ते चेद विमलजलभगत किं भजन्ते न शान्ति
किञ्चाऽम्भः काचकृपोदरविवरगतं निप्पतेत तत् तदानीम् । दोपश्चेद् नैप तृणं यद यमुदयते नूतनव्यूहरूपः
सयुस्तहिं नैताः कथमपि रुचयो लोचनस्यापि तस्मिन ।।७२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org