SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૨ સભાષ્ય-ભાષાંતર भाष्यम् - यस्माच्चाधस्तिर्यगूर्ध्वं च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात्पराभियोगाच्च प्रायेण प्रतिपतन्ति, अनियतगतिप्रचारा मनुष्यानपि केचिद् भृत्यवदुपचरन्ति विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते ॥ અર્થ- જેથી ઊર્ધ્વ, અધો અને તિર્યક્ એમ ત્રણેય લોકમાં ફરતાં સ્વતંત્રાથી કે પરતન્ત્રતાથી (શક્રવગેરેની પરતન્ત્રતાથી) પ્રાયઃ કરીને અનિયતગતિ વડે (જ્યાં ત્યાં) ચારે બાજુ રખડ્યા કરે છે. કેટલાક તો मनुष्योनी पाए। नोकरनी नेम सेवा अर्ध्या अरे छे. (तेखो ) नूहा हा पर्वतो, भीगो, वन, गुझखो વગેરેમાં રહે છે. તેથી તે વ્યંતરો કહેવાય છે. ૯૯ भाष्यम् - तत्र- किन्नरा दशविधाः, तद्यथा- किम्पुरुषाः किंपुरुषोत्तमाः किन्नराः किन्नरोत्तमा हृदयंगमा रूपशालिनोऽनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठा इति । किम्पुरुषा दशविधाः, तद्यथा - पुरुषाः सत्पुरुषाः महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा अतिपुरुषोत्तमा मरुदेवा मरुतो मेरुप्रभा यशस्वन्त इति । महोरगा दशविधा:, तद्यथा - भुजगा भोगशालिनो महाकायाः अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षाः मेरुकान्ता: भास्वन्त इति । गान्धर्वा द्वादशविधाः, तद्यथा - हाहा हूहू तुम्बुरवो नारदा ऋषिवादिका भूतवादिकाः कादम्बा महाकादम्बा रैवता विश्वासवो गीतरतयो गीतयशस इति । यक्षास्त्रयोदशविधाः, तद्यथा- पूर्णभद्राः माणिभद्राः श्वेतभद्रा: हरिभद्राः सुमनोभद्राः व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्राः मनुष्ययक्षा वनाधिपतयोवनाहारा रूपयक्षा यक्षोत्तमा इति । सप्तविधाराक्षसाः, तद्यथा - भीमा महाभीमा विघ्ना विनायका जलराक्षसा राक्षसराक्षसा ब्रह्मराक्षसा इति । भूता नवविधाः, तद्यथा - सुरूपा: प्रतिरूपा अतिरूपा भूतोत्तमा स्कन्दिका महास्कन्दिका महावेगाः प्रतिच्छन्ना आकाशगा इति । पिशाचाः पञ्चदशविधाः, तद्यथा - कूष्माण्डाः पटका जोषा आह्नकाः काला महाकालाश्चोक्षा अचौक्षास्तालपिशाचा मुखरपिशाचा अस्त महाविदेहास्तूष्णीका वनपिशाचा इति । तत्र-किन्नराः प्रियङ्गुश्यामाः सौम्याः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा अशोकवृक्षध्वजा अवदाताः । किम्पुरुषा ऊरुबाहुष्वधिकशोभा मुखेष्वधिकभास्वरा विविधाभरणभूषणाश्चित्रस्रगनुलेपनाश्ञ्चम्पकवृक्षध्वजाः । महोरगाः श्यामावदाता महावेगाः सोम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धग्रीवा विविधानुविलेपना विचित्राभरणभूषणा नागवृक्षध्वजाः । गान्धर्वा रक्तावदाता गम्भीराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वरा मौलिधरा हारविभूषणास्तुम्बुरुवृक्षध्वजाः । यक्षाः श्यामावदाता गम्भीराः तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालुजिह्वौष्ठा भास्वरमुकुटधरा नानारत्नविभूषणा वटवृक्षध्वजाः । राक्षसा अवदाता भीमा भीमदर्शनाः शिरः कराला रक्तलम्बौष्ठास्तपनीयविभूषणा नानाभक्तिविलेपनाः खट्वाङ्गध्वजाः । भूताः श्यामाः सुरूपाः सौम्या आपीवरा नानाभक्तिविलेपनाः सुलसध्वजाः कालाः । पिशाचाः सुरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभूषणाः कदम्बवृक्षध्वजाः। इत्येवंप्रकारस्वभावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्तीति ॥ १२ ॥ तृतीय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005474
Book TitleTattvarthadhigam Sutra
Original Sutra AuthorN/A
AuthorAkshaychandrasagar
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages306
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, & Tattvarth
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy