________________
धरसेन ४ थानां ताम्रपत्री
अक्षरान्तर
पहेलं पतरूं
१ ओं स्वस्ति विजयस्कन्धावाराद्भर भरुकच्छवा सकात्प्रसभप्रणतमित्राणां मैत्र
काणामतुलवल
२ [ सं ]पन्न मण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जवोपार्जिता
३ नुरागादनुरक्तमौलभृत श्रेणीब लावाप्तराज्यश्रियः परममाहेश्वरी भटाकादव्यवच्छिन्न राजव
४ शॉंन्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खङ्गद्वितीयबाहुरेव समद
५ परगजघटास्फोटनप्रकाशितसत्व निकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्त
पादनखरश्मि
६ सँहतिः
सकलस्मृतिप्रणीतमार्गसम्यक्परिपालन प्रजा हृदयरञ्जनान्वर्थराजशब्दो
रूपकान्तिस्थैर्यगाम्भीर्य्य
७ बुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणव
८ दपास्ताशेषखकार्य्यफल प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद
चारीव सकलभुवन
९ मण्डलाभोगप्रमोदः परममाहेश्वरः श्री गुहसेनस्तस्य सुतस्तत्पादन खमयूखसन्तानविसृतजाह्नवीजलौघ
१० प्रक्षालिताशेषकल्मषैः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामि[ कै ]र्गुणैस्स
११ हजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयता धर्मदायानामपाकर्त्ता
१२ प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य सँहतारातिपक्षलक्ष्मीपरिभोगद[ क्ष ]विक्र
१३ मो विक्रमोपसंप्राप्तविमलपात्थििवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्द
१४ नात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्कुण्डलः समरशतविजयशोभासनाथमण्डला
Jain Education International
[] द्युतिभासुरतरान्स
पं. ८ फलः पं. १४ वरांस.
For Personal & Private Use Only
१८५
www.jainelibrary.org