________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तरे
पतरूं पहलं
पं. १ - २४ ओं स्वस्ति विजयवलभीतः प्रसभप्रणतामित्राणां मत्रकानामतुलबलसम्पन्न मण्डलाभोग संसक्तसंप्रहारशतलब्धप्रतापात्प्रतापापनतदानामानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणी लावाप्तराज्यश्रियः परममाहेश्वर श्रीभटाक्वदिव्यवच्छिन्नराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधान्ताशेषकल्मषः शैशवात्प्रभृतिखड्ग द्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्शरिपालनप्रजाहृदयरंजनान्वराजशब्दो रूपकान्तिस्थैर्य्यगाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगु· रुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्ववीर्य्यफलः प्रार्थनाधिकार्थप्रदानानन्दित्विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्ड लाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनः तस्य सुतः तत्पादनखमयूखसंतानविसृतजाह्नवी जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैः गुणैः सहजशक्तिशिक्षवेशेक्षविस्मापिताखिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्म्मदायानामपाकत्ती प्रजोपघातकारिणां उपप्लवानां शमयिता श्रीसरस्वत्योरेकाधिवासस्य सहोपपतिपक्षलक्ष्मिपरिभोगदक्षविक्रमः विक्रमोपसंप्राप्तविमलपाथिवश्रीः परममाहेश्वरः श्रीधरसेनः तस्य सुतः तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमुद्रस्थगतसमग्रदिङ्मण्डलः समरशतविजयशेाभासनाथमण्डल | प्रद्युतिभासुरतर शपीठोव्यूढगुरुमनोरथमहाभावः सर्वविद्यापरावरभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि स्वाप - पादनीयपरितोषः समग्रलोकागाढगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृत युगनृपतिपथविशोधनाधिगतोदग्रकीर्त्तिः धर्मानुपरोधोज्ज्वलतरीकृतार्थमुख संपदुपसेवानि रूठधम्र्म्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यः तस्यानुजः तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेव गुरुणात्यदरसमभिलषणीयामपिराजलक्ष्मीं स्कन्धासक्तां परमभद्रइव धुर्यस्तदाज्ञासम्पादनैकरसतयैवोद्वहनखेडसुखरतिभ्यां अनायासितसत्वसंपत्ति: प्रभावसम्पद्वशीकृतनृप - तिशतशिरोरत्नच्छायोपगूढपादपीठापि परावज्ञाभिमानरसनालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपैौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियापायाः कृतनिखिलभुवनामोदविमलगुण संहतिः प्रसभविघटितसकलक लिविलसितगति निचज
१५८
૧ કા, ઇ. ઇ. વા. ૩ પા. ૧૭૧ મેં અલીણાના શીલાદિત્ય ૭ માના સંવત્ ૪૪૭ તામ્રપત્રમાંના આ ભાગ મૂળ તરીકે લઇને અને તેમાં પ્રગટ કર્તાએ આપેલા પાઠ ફેર દાખલ કરીને આ અક્ષરાંતર ઉપજાવ્યુ છે. તેથી દરેક પંક્તિની શરુવાત જાણી શકાઈ નથી.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org