SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 30 શ્રી શત્રુંજ્ય સૌરભ यथोपदेशं चक्रान्तरर्हद्विवादियोजनात् । ध्यायन्ति त्वां महात्मानः पदस्थध्यानसिद्धये ॥ १२ ॥ रागद्वेषविनिर्मुक्तं योगयुक्तं निराश्रयम् । निर्घातितस्फुरद्धातिकर्माणं करुणापरम् ॥ १३ ॥ आत्मानं केवलालोकलोकालोकावलोकिनम् । ध्यायेद्यस्त्वन्मयत्वेन स स्याद्रुपस्थविन्मुनिः ॥ १४ ॥ नानाश्रतिविचारं स्यादैक्यश्रुतिविचारकम् । सूक्ष्मक्रियाभिधं चैव समुच्छिन्नक्रियं तथा ॥ १५ ॥ इति मत्वात्मसंवेदाच्छुक्लं ध्यानं चतुर्विधम् । योगिनो गतरूपं त्वानन्तः पश्यन्ति चिन्मयम् ॥ १६ ॥ नानाध्यानैः पुरा देव येन ध्यातोऽसि चेतसा । क्रमेणात्मानमाविश्य तन्मारयसि चारु तत् ॥ १७ ॥ निराकारं निराधारं निराहारं निरञ्जनम् । विदन्ति परमार्थन देव त्वां तत्त्ववेदिनः ॥ १८ ॥ अजिह्मपरमब्रह्ममयस्तेजश्चयस्तव ।। किं सर्वगोऽपि मे मोहतमो हरति न प्रभो ॥ १९ ॥ भवग्रीष्मभवस्तापव्यापः स्यादेव देहिनाम् । तदा यदा चिदानन्दचन्द्रस्त्वमसि दूरगः ॥ २० ॥ शून्यता स्वपने देव जागरेऽनल्पकल्पनाः । एतद् द्वयातिगं किञ्चिद्वदन्ति त्वत्पदं बुधाः ॥ २१ ॥ त्वयि ध्येये व्रजेध्ध्याता ध्यानं च विलयं विभो । अतो बहिर्मुखा लोका विमुखास्तव चिन्तने ॥ २२ ॥ ये तु तत्त्वविदो देव कल्पनातीत चेतसः । ध्येयादित्रिकभेदांस्ते न विदन्ति मनागपि ॥ २३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005411
Book TitleShatrunjay Saurabh yane Jin Tirth Darshan Sachitra
Original Sutra AuthorN/A
AuthorJayantilal Prabhudasbhai tatha Varjivandas Revalal
PublisherShatrunjay Saurabh yane Jin Tirth Darshan Sachitra
Publication Year
Total Pages564
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy