SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ પ્રકરણ ૪ શું भरतचक्री करेली नेमिनाथनी स्तुति, श्रीशैवेय जयामेयगुणरत्नमहोदधे । जयापारकृपाधार स्फारसंसारतारक ॥ १ ॥ श्रीमन्नेमिजिन स्वामिन् सहजेनात्मतेजसा । तमोमग्नं भवोद्विग्नं मामुद्धर कृपापर ॥ २ ॥ रागादयोऽरयो देव ये पुरा निर्जितास्त्वया । त एव त्वद्विरोधेन बाधन्ते मां स्वदाश्रयम् ॥ ३ ॥ सर्वभावैकसामान्य मौदासीन्यमिहाश्रयन् । त्वं चेदुपेक्षसे तत्ते कुतः सुस्वामिता मता ॥ ४ ॥ उदेति न मुदे यावत्त्वन्मयं चिन्मयं महः । स्वामिन्मोहतमस्तावच्चित्तान्तर्जायतेऽङ्गिनाम् ॥ ५ ॥ संसारसागरस्यान्तमहावर्त गतः प्रभो । कदा मात्रभवध्ध्यानयानपात्रमहं श्रये ॥ ६ ॥ अहो मदोद्धतं चित्तं सदा कृतकदाग्रहम् । तथा प्रसीद विश्वेश यथा सीदति न क्वचित् ॥ ७ ॥ तृष्णया तरलं स्वामिन् विह्वलं स्मरतापतः । शान्तिमेति यदि स्वान्तं त्वद्धयानामृतमजनात् ॥ ८ ॥ जातु किं जन्तवो यान्ति क्रोधक्रराध्वना विभो । शकसारं त्वन्मार्गे मार्गयन्ते यदि क्षणम् ॥ ९ ॥ मधुना स्पर्द्धिनानेनाध्वना ध्यानं धुनाति ते । अनाहतेन नादेन जिन कर्माणि योगिनाम् ॥ १० ॥ पार्थिवादिस्फुरत्पंच पिंडस्थध्यानधारणाः । अभ्यस्यन्ति तवाधीश परज्ञानाय योगिनः ॥ ११ ॥ Jain Education International For Personal & Private Use Only २८. www.jainelibrary.org
SR No.005411
Book TitleShatrunjay Saurabh yane Jin Tirth Darshan Sachitra
Original Sutra AuthorN/A
AuthorJayantilal Prabhudasbhai tatha Varjivandas Revalal
PublisherShatrunjay Saurabh yane Jin Tirth Darshan Sachitra
Publication Year
Total Pages564
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy