SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चक्रे च षोडशाद्यस्ताः सद्यस्तत्र क्षणेऽपरः । मार्गयित्वा दिनान्यष्टौ, स्वर्णं मेलयितुं ययौ ॥ २७ ॥ मन्त्र्यपि प्राहिणोदुर्गे, घटीयोजनगामिनीम् । करभीं स्वर्णमानेतुमुक्त्वा दशदिनावधिम् ।।२८।। पूर्ण: कटकटङ्कावल्यादिभिर्जनतार्पितैः । सङ्क्षेऽष्टाविंशतिं चामीकरस्यामीमिलद्धटीः ||२९ ।। प्रस्तुते पुनरप्यैन्द्रस्रग्वादे तावतीरपि । सोऽवादीत्तावदाद्येन षट्पञ्चाशत्तदोचिरे ॥ ३० ॥ सहस्रयोजनैर्लक्षानुष्टुभि: कोटिरूपकैः । पश्चाद्य: स इवाद्यस्य, ततो नामिलदप्यसौ ॥३१॥ सङ्घं पप्रच्छ चैकान्ते, भवद्भिर्भाव्यतोऽधिकम्। 1 तेनोचे नास्ति नः शक्तिश्चेत्तव स्यात्तदा कुरु ॥३२॥ वृषभानोमनुष्याणां, स्वेषां विक्रयणेऽपि न । एतावदपि हि स्वर्णमधिकस्य तु का कथा ? ॥३३॥ लुण्ठितैरिव भूत्वा च फलं किं तीर्थवालने । 1 इमं न हि सहादाय, शैलेशं यास्यते गृहे ॥ ३४ ॥ तदाकर्ण्य स्वसङ्घोक्तं, सङ्केश: सचिवं ततः। परिधत्त स्रजं यूयमित्याख्यदसिताननः ॥३५॥ दिवाऽब्जौघ इवोल्लासं, तदानीं दक्षिणो जन: । नक्तं स इव च व्यक्तं, वामः सङ्कोचमासदत् ॥३६॥ हैमीभिर्दिग्वधूटीकनकमयधटीतुल्यतेजोवितान:, षट्पञ्चाशद्धटीभिस्तदनु परिदधो दाम पौरन्दरं सः। संसारत्रायि चारात्रिकमाधिकमहं दध्वनत्तूर्यवर्यं, कृत्वा दत्त्वा च दानं निजपदमगमल्लोकलक्षाभ्युपेतः ।। ३७ ॥ ગિરનાર: ગ્રંથોની ગોદમાં Jain Education International For Personal & Private Use Only ८3 www.jainelibrary.org
SR No.005399
Book TitleGirnar Granthoni Godma
Original Sutra AuthorN/A
AuthorHemvallabhvijay
PublisherGirnar Mahatirth Vikas Samiti Junagadh
Publication Year
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy