SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ શ્રી રત્નમંડનર્માણ વિચિત સુકૃત સાગર इत्यादियुक्तिभिः सङ्घपत्योर्विवदमानयोः । वृद्धा द्वेधाऽपि चातुर्यवन्तोऽवोचु - विचारिणः ।। १८ ।। यतः- दिष्ट्या स्वागतमद्यवार्द्धक ! चिरात्पूर्णायुषा दृश्यसे, त्वत्संगेन कचा न केवलममी स्युर्बद्धयोऽप्युज्जला: । वैराग्यं सुलभं दुरापमपि हि स्यान्मान्यता साधुषु, श्रेय:कर्मणि जृम्भते मतिरिति ब्रूमो गुणांस्ते कति ? ॥ १०३ ॥ हित्वा वादं सहारुह्य शक्रमालाऽर्पणक्षणे । यो विधाताऽधिकं वित्तं, तस्य मायामदं यतः ॥१९॥ क्षत्राः शस्त्रैर्बुधाः शास्त्रैरिभ्याः स्वैः पामराः करैः । गालीभिरङ्गना: श्रृङ्गैः, पशवः कलिकारिण ॥२०॥ प्रपद्येदं च वृद्धोक्तमुभौ तीर्थग्रहोद्यतौ । सहाऽऽरुहोहतुः सङ्घसहितै रैवताचलम् ॥ २१ ॥ लोकाः सर्वे सरोमाञ्चाः, नेमुः श्रीनेमिने मुदा । स्नात्रपूजाध्वजारोपनृत्यस्तुत्यादि च व्यधुः ॥ २२ ॥ इन्द्रमालोद्धट्टनायां, सङ्घलोके सकौतुके । स्थितौ सङ्घेशसचिवौ, नेमेर्वामेतराङ्गयोः ॥ २३ ॥ स्थितिरेव तयोरादौ व्यनक्ति स्म जयाजयौ । " यस्याभूद्दक्षिणा बाहा, श्रीनेमेस्तस्य वै जयः ॥२४॥ तौ टङ्कान् हाटकान् हेमसत्कसेरधटीरपि । क्रमेण चक्रतुस्तीर्थग्रहव्यग्रहृदौ तदा ।। २५ ।। रैधटी: सचिवस्तत्र, पञ्चेन्द्रस्रक्कृते कृताः । षडन्योऽपि ततः सप्ताष्टाद्यास्तौ चक्रतुः क्रमात् ॥२६॥ Jain Education International ગિરનાર: ગ્રંથોની ગોદમાં For Personal & Private Use Only ८२ www.jainelibrary.org
SR No.005399
Book TitleGirnar Granthoni Godma
Original Sutra AuthorN/A
AuthorHemvallabhvijay
PublisherGirnar Mahatirth Vikas Samiti Junagadh
Publication Year
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy