________________
इत्थं पृथ्वीधरस्तीर्थं, स्वं कृत्वाऽवातरत्ततः ।
शक्तौ सत्यां परोपात्ततीर्थोपेक्षा हि नोचिता ||३८ ।। दृष्टान्त: सिद्धसेनोऽत्र, स्तुत्यालिङ्गविदारण: ।
बप्पभट्टिश्च बालास्याम्बुजेनाऽम्बाभि-धायक: ।।३९ ।। द्रव्यं देवस्य दत्त्वैव,भोक्ष्येऽहमिति मन्त्रिणः ।
अभिग्रहवतश्चैकमौपवस्त्रमजायत।।४०।। धर्मारम्भगदच्छेदविभवागमनेष्विव ।
देवद्रव्यार्पणे हि स्याद्विलम्बो न शुभावहः ।।४१।। उक्तं च"आयाणं जो भंजइ, पडिवन्नधणं न देइ देवस्स।
नस्संतं समुविक्खइ, सोवि हु परिभमह संसारे ।।१०४ ।। विक्किज्जइ तणयाई, किनइ दासत्तणं परगिहे वा।
एवंपि हु अप्पिज्जा, जिणदव्वं अप्पहिअहेउं ।।१०५।। चेइयदव्वविणासे, इसिघाए पवयणस्स उड्डाहे।
संजयचउत्थभंगे, मूलग्गी बोहिलाभस्स ।।१०६ ।। चेइयदव्वं साहारणं च जो दुहइ मोहिअमईओ।
धम्मं सो न विआणइ, अहवा बद्धाउओ नरए ।।१०७।।" द्वितीयेऽह्नि च निर्बन्धेऽप्यभुक्त स न सङ्घपः।
महाधराद्या भूयांसस्तदास्थुरकृताशनाः ।।४२ ।। उन्नतस्येव मेघस्य, मार्ग स्वर्णस्य पश्यताम्।
तेषां चानश्नतां तद्विघटीशेषमभूदहः ।।४३ ।। एतावत्याऽऽययुः स्वर्णकरभ्योऽथ क्षणादभूत् ।
प्रमोदमन्दरक्षुब्धोऽस्ताघ: सङ्घाब्धिरुद्धनिः ।।४४ ।। तत्कालं तोलयित्वा स, ददौ देवस्य काञ्चनम् ।
(
57
गिरनारः ग्रंथोनी गोमा
८४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org