________________
दृष्ट्वा रोहणवैताढ्यमेरुसम्पत्तितस्करम् ।
रैवताद्रिं ददौ चक्री, तत्रावासानुपोषित: ।। ७८६ ।। गुर्वादेशात्तीर्थपूजां, चक्रे शत्रुजयाद्रिवत्।
चक्री समस्तसङ्घन, समं सम्मदवांस्ततः ।। ७८७ ।। अभोजयत् शक्तिसिंहः, सङ्घलोकं सचक्रिणम्।
मनोहराहाररसावधीरितसुधं ततः ।। ७८८ ॥ दुर्गमं रैवतं ज्ञात्वा, महोदयमिवाथ तम्। __ चक्री यक्षसहस्रेण, सिद्धान्तेनेव केवली ।। ७८९ ॥ अचीकरत् सुखारोहकृते पद्याचतुष्टयम् ।
शिलोत्करैर्दानशीलतपोभावैरिवोज्ज्वलम् ।। ७९० ।। युग्मम्।। वापीवननदीचैत्यविश्रान्तपथिकव्रजम्।
अकार्षीदरत: प्रोचैः, पद्या: पद्यामुखे पुरम् ।। ७९१ ॥ ताभिः सुखं सङ्घलोका:, पद्याभी रैवताचलम् ।
अथारुरुहुरुत्तुङ्ग, मनोरथमिव स्वकम् ।। ७९२ ।। जानन् भविष्यतो नेमे विकल्याणकत्रयम्।
तत्राकारयदुत्तुङ्ग, प्रासादं शिल्पिनाधिप: ।। ७९३ ।। रैवताद्रिमणीरत्नकिरणैर्घनवर्णकैः।
अयत्नं चित्रनिर्माणमासीत्तत्र जिनालये ।। ७९४ ॥ स प्रासादो ध्वजव्याजाद्यश:कोशस्य चक्रिणः । ___ वणिजे सुरवृन्दाय, वर्णिकां दर्शयन्निव ।। ७९५।। शुशुभे स प्रतिदिशमेकादशसुमण्डपैः ।
चतुर्दारो महोत्तुङ्गो, यो नाम्ना सुरसन्दरः ।। ७९६ ।। बलानकैर्गवाक्षश्च, तोरणैस्त्रिजगत्पतेः ।
प्रासादोऽशोभत प्रोचैः, सर्वाद्यानमण्डित: ।। ७९७ ॥
ગિરનાર ગ્રંથોની ગોદમાં
Jain Education International
For Personal & Private Use Only
:
www.jainelibrary.org