________________
जिनशृङ्गाग्रसञ्जाग्रदुदग्रमणिजालकैः ।
दिवापि यः प्रकुरुते शतचन्द्रं नभस्तलम् ॥ ७७४ ।।
शेषाङ्गे चन्दनमिव, चन्द्रे चन्द्रस्य चर्चना |
I
यत्र स्फटिककुल्यासु, भाति निर्झरिणीपयः ।। ७७५ ।। सदा निर्झरझाङ्कारमुखरः सर्वतोऽस्ति यः।
उपत्यकासु खेलद्भिर्गजैर्जङ्गमशृङ्गवान् ।। ७७६ ।। चरदेणमदालिप्तो, वीज्यमानश्च चामरैः ।
चमरीभिः पर्वतेश, इव योऽस्ति सदोन्नतः ॥ ७७७ ।। कीचकैः पवनापूर्णैर्नदीनिर्झरझात्कृतैः ।
केकिनो यत्र नृत्यन्ति, गीतासक्ताः सुरस्त्रियाम् ।। ७७८ ॥ निरुद्ध्य नवरन्ध्रेभ्यो, मारुतं स्थिरवृत्तयः ।
ध्यायन्ति यत्र मुनयः, कन्दरासु महन्मह: ।। ७७९ ।। सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ।
विद्याधरैश्च गन्धर्वैरस्ति स्वस्वार्थसिद्धये ॥ ७८० ॥ सूर्याचन्द्रमसौ यत्र, क्षणं विश्रान्तवाहनौ ।
किञ्चिदानन्दमासाद्य, यातस्तत्स्तुतितत्परौ ।। ७८१ ।।
लवङ्गलवलीनागवल्लीमल्लीतमालकाः ।
कदम्बजम्बूमाकन्दनिम्बाम्बकसबिम्बका: ।। ७८२ ।।
तालीतालीसतिलकरोध्रन्यग्रोधचम्पकाः ।
बकुलाशोकसाश्वत्थपलाशप्लक्षमाधवाः ।। ७८३ ॥
कदलीचन्दनच्छायाकल्पद्रुकणवीरकाः ।
मातुलिङ्गदेवदारुपाटलातिलकांकुशा: ।। ७८४ ॥
जम्बूकुरबका (ङ्को) ल्लमुखा यत्र महीरुहः ।
छायाफलैः पत्रपुष्पैः, प्रीणयन्ति जनव्रजान् ।। ७८५ ।। चतुर्भिः कलापकम् ।।
ગિરનાર: ગ્રંથોની ગોદમાં
Jain Education International
For Personal & Private Use Only
૪૧
www.jainelibrary.org