________________
શ્રી ધનેશ્વરસૂરિવિરચિત શ્રી શત્રુંજય માહાસ્ય સપ दहशुस्ते महाशैलमथ रैवतमुन्नतम्।
सुवर्णरत्नमाणिक्यरोचि: कर्बुरिताम्बरम् ।। ७६३ ।। इन्द्रनीलमणिप्रोतस्फटिकोपलरोचिषम्।
धम्मिल्लमिव मल्लीजकुसुमैर्भूमियोषितः ।।७६४।। मध्ये मध्ये हेमरेखं, सर्वनीलशिलामयम्।
स्फुरद्विधुच्छिखं कृष्णमिव जीमूतमुन्नतम् ।।७६५।। यत्र किन्नरबालेभ्य:, क्रीडद्यो रत्नकन्दुका: ।
दिवाप्युत्पतिता: केचिद्दधुः खे तारकभ्रमम् ।। ७६६ ।। नक्तमिन्दुदृषच्छृङ्गश्रवत्पीयूषकुल्यया।
अयत्नं यत्र विपिने, शाडलन्ति द्रुमोत्कराः ।। ७६७।। पञ्चवर्णमणीरोचिश्चित्रद्रुः पवनेरितः ।
यत्र निर्माति मायूरनृत्यभ्रममुपेयुषाम् ।। ७६८ ।। य: सर्वतो नीलमणिशिलो मध्ये सितोपल:।
विस्फुरत्तारको भाति, तारापथ इव क्वचित् ।। ७६९ ।। उच्चकाञ्चनचूलाग्र:, परितो द्रुमवेष्टित: । ___रक्षामणिमहीनार्या, इवोत्तुङ्गो रराज य: ।। ७७० ।। प्रतिभूः कस्य धर्मोऽस्ति, लक्ष्म हेम्नोऽथ कस्य च।
दारिद्यं रसकुण्डानि, रटन्ति स्मेति यस्य च ।। ७७१ ।। सफलैः कदलीवृक्षैर्माकन्दैर्बद्धतोरणः ।
विद्याधर प्रियागानैरुत्सवीवास्ति यो नग: ।। ७७२ ।। दिवा ज्वलत्सूर्यमणिर्नक्तमौषधिदीपकैः । अनन्तलक्षाधिपतिरिव य: कदलीध्वजैः।। ७७३ ।।
रनारः ग्रंथोनी गोमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org