________________
१००
"सुधन्या भवतां निः" श्रीन्यायविजयाख्या ये विजयश्रेणिख्यातयः । वर्धापनदिने दिष्टया धर्धन्ते ते शुभायुषा ॥१॥ दत्त: “पवित्रसंदेशः” दीपावलि सुपर्वणि । लोकोपकारकर्यस्ते धन्या वै सुतरां भुवि ॥२॥ महावीरचरित्रं वो विश्ववात्सल्य प्रेरकम् । प्रेरकं विश्वर्शातेश्च भूतं लोकोपकारकम् ॥३॥ "आर्तनादा मनुष्याणां स्वातिनाशाय सर्वथा । भवतामार्तनादस्तु लोकार्तिलयकारकः ॥४॥ मुनिवर्या महाभागा भवत्कल्याण भावना । सन्मार्गदर्शिका सास्ति सुखदाभयदा सदा ॥५॥ कल्याणमार्गमीमांसा त्वद्दीनाक्रंदनं तथा । भक्तगीतं तथान्यानि भवन्ति भवदीपकाः ॥ ६ ॥
कार्तिके हि शुभे मासे तृतियायां तिथौ तथा । अभिनंदनमर्हन्नि भवन्त: सौम्यवासरे ॥ ७ ॥ श्रीन्यायविजयाख्या भा भवाब्धिभय भंजकाः । । भवे विभभवयुक्तानां सुघन्या भवतां जनिः ॥ ८ ॥
-: इति मंगलाष्टकम् :
विनम्र:-या. वि. देवासकर ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org