________________
ॐ ह्रीं अहँ नमः । ॐ ह्रीँ श्री शंखेश्वरपार्श्वनाथाय नमः ।
एँ नमः ।।
કવિપ્રભાવક શ્રુતકેવલી શ્રીમદ્ સિદ્ધસેનદિવાકરસૂરીશ્વરજી મહારાજા વિરચિતા નવાંગી ટીકાકાર શ્રીમદ્ અભયદેવસૂરીશ્વરજી મહારાજા કૃતા
તત્ત્વબોધવિધાયિની વ્યાખ્યા સમન્વિત.
સમ્મતિતર્ક પ્રકરણ
શ્લોકસ્પર્શી ટીકા પ્રાય: શબ્દશઃ વિવેચન
*
भाग-१ : प्रथम sis *
टीआनुं मंगलायरा :
'इह च शारीरमानसानेकदुःखदारिद्र्योपद्रवविद्रुतानां निरुपमानतिशयानन्तशिवसुखानन्यसमाऽवन्ध्यकारणसम्यग्ज्ञानदर्शनचारित्रात्मकपरमरत्नत्रयजिघृक्षया अतिगम्भीरजिनवचनमहोदधिमवतरितुकामानां तदवतरणोपायमविदुषां भव्यसत्त्वानां तद्दर्शनेन तेषां महानुपकारः प्रवर्त्तताम्, तत्पूर्वकश्चात्मोपकारः' इति मन्वानः आचार्यो दुष्षमाऽऽरसमाश्यामासमयोद्भूतसमस्तजनताहार्दसंतमसविध्वंसकत्वेनाऽवाप्तयथार्थाभिधानः सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणकरणे प्रवर्त्तमानः 'शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्त्तमाना अभीष्टदेवताविशेषस्तवविधानपुरस्सरं प्रवर्त्तन्ते' इति तत्समयपरिपालनपरस्तद्विधानोद्भूतप्रकृष्टशुभभावानल्पज्वलदनलनिर्दग्धप्रचुरतरक्लिष्टकर्माविर्भूतविशिष्टपरिणतिप्रभवां प्रस्तुतप्रकरणपरिसमाप्तिं चाकलयन् 'अर्हतामहत्ता शासनपूर्विका, पूजितपूजकश्च लोकः, विनयमूलश्च स्वर्गापवर्गादिसुखसुमनःसमूहानंदामृतरसोदग्रस्वरूपप्राप्तिस्वभावफलप्रदानप्रत्यलो धर्मकल्पद्रुमः' इति प्रदर्शनपरैर्भुवनगुरुभिरप्यवाप्तामलकेवलज्ञानसंपद्भिस्तीर्थकृद्भिः शासनार्थाभिव्यक्तिकरणसमये विहितस्तवत्वात् 'शासनमतिशयतः स्तवार्हम्' इति निश्चिन्वन् 'असाधारणगुणोत्कीर्तनस्वरूप एव च पारमार्थिकस्तवः' इति च संप्रधार्य शासनस्याभीष्टदेवताविशेषस्य प्रधानभूतसिद्धत्वकुसमयविशासित्वार्हत्प्रणीतत्वादिगुणप्रकाशनद्वारेण स्तवाभिधायिकां गाथामाह -
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org