________________
२४२
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ।। शेषाणां पादोने ॥ ३१ ॥ असुरेन्द्रयोः सागरोपममधिक च ।। ३२ ॥ सौधर्मादिषु यथाक्रमम् ॥ ३३ ॥ सागरोपमे ॥ ३४ ॥ अधिके च ।। ३५ ।। सप्त सानत्कुमारे ।। ३६ ।। विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ।। ३७ ।। आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ।। ३८ ।। अपरा पल्यापममधिक च ।। ३९ ॥ सागरोपमे ।। ४० ॥ अधिके च ॥ ४१ ।। परतः परतः पूर्वा पूर्वाडनन्तरा ॥ ४२ ॥ नारकाणां च द्वितीयादिषु ।। ४३ ।। दश वर्षसहस्त्राणि प्रथमायाम् ।। ४४ ।। भवनेषु च ॥ ४५ ॥ व्यन्तराणां च ।। ४६ ।। परा पल्यापमम् ।। ४७ ।। ज्योतिष्काणामधिकम् ।। ४८ ॥ ग्रहाणामेकम् ॥ ४९ ॥ नक्षत्राणामधेम् ॥ ५० ॥ तारकाणां चतुर्भागः ॥ ५१ ॥ जघन्या त्वष्टभागः ॥ ५२ ॥ चतुर्भागः शेषाणाम् ।। ५३ ।। इति चतुर्थोऽध्यायः ॥ ४ ॥
अध्याय ५ मा ।। ५ ॥ अजीवकाया धर्माधर्माकाशपुद्गलाः ।। १ ।। द्रव्याणि जीवाश्च ॥ २ ॥ नित्यावस्थितान्यरूपीणि ।। ३ ।। रूपिणः पुद्गलाः ।। ४ ।। आऽऽकाशादेकद्रव्याणि ।। ५ ॥ निष्क्रियाणि च ।। ६ ।। असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥ ७ ॥ जीवस्य च ।। ८ ।। आकाशस्यानन्ताः ॥ ९॥ सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् ॥ १० ॥ नाणाः ।। ११ ।। लोकाकाशेऽवगाहः ॥ १२ ॥ धर्माधर्मयोः कृत्स्ने ।। १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ असख्येयभागादिषु जीवानाम् ।। १६ ।। प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ।। १६ ॥ गतिस्थित्युपग्रहा धर्माधर्मयोरुपकारः ।। १७ ॥ आकाशस्यावगाहः ॥ १८ ॥ शरीरवाझ्मनः प्राणापानाः पुद्गलानाम् ।। १९ ॥ सुखदुःखजीवितमरणापग्रहाश्च ।। २० ।। वर्तना परिणामक्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।। २३ ॥ शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ।। अणवः स्कन्धाश्च ।। २५ ।। सङ्घातभेदेभ्य उत्पद्यन्ते ।। २६ ॥ भेदादणुः ।। २७ ।। भेदसङ्घाताभ्यां चाक्षुषाः ॥ २८ ॥ उत्पादव्ययध्रौव्ययुक्त सत् ।। २९ ।। तद्भावाव्ययं नित्यम् ॥ ३० ॥ अर्पितानर्पितसिद्धेः ॥ ३१ ॥ स्निग्धरूक्षत्वाद् बन्धः ।। ३२ ।। न जघन्यगुणानाम् ।। ३३ ॥ गुणसाम्ये सदृशानाम् ॥ ३४ ॥ द्वयधिकादिगुणानां तु ॥ ३५ ॥ बन्धे समाधिको पारिणामिकौ ॥ ३६ ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org