________________
श्रीशत्रुंजय गिरिवरगता लेखाः
एतामलिखत् वाजडतनुजन्मा ध्रुवकजयतसिंहाख्यः । उदरिदपि कुलस्वामिसुतः पुरुषोत्तमो विमलां ॥
ले० ४९० लेख: २
र्द० ॥ ॐ नमः सर्व्वज्ञाय ॥
देवः स वः शतमखप्रमुखा मरौघक्लृप्तप्रथः प्रथमतीर्थपतिः पुनातु । धर्मक्रमोऽपि कि केवल एव लोके नीतिक्रमोऽपि यदुपक्रममेष भाति ॥ १ ॥
श्रीविक्रमसंवत् १२८८ वर्षे पौष सुदि १५ शुक्रे श्रीमदणहिरपुर वास्तव्यप्राग्वाटवंशालंकरण ठ० श्रीचण्डपात्मज ठ० श्रीचण्डप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनंदनेन ठ० श्रीकुमारदेवीकुक्षिसंभूतेन ठ० श्रीलू णिग महं० श्रीमालदेवयोरनुजेन महं० श्रीतेजःपालाप्रजन्माना चौलुकयकुलनभस्तलप्रकाशनैकमार्तण्डमहाराजाधिराजश्रीभुवनप्रसाद देवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण सं [ ......]७७ वर्षे श्रीशत्रुंज्योज्जयंतप्रभृति — महातीर्थयात्रोत्सव- प्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासाहित.. . त्येन श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन अनुज महं० श्रीतेजपालेन च ईह स्वकारितसौवर्णदंडकलशविराजितसच्चारुतोरणालंकृत श्रीमदुज्जयंतस्तंभनतीर्थद्वयावतारर- - हतमं- - नन्दीश्वरसत्यपुरशकुनिका'विहारकपर्दिक्षायतनोद्धार अनुपमाभिधानमहासरोवरप्रभृतिप्रधानधर्मस्थानपरंपराविराजितस्य श्रीशत्रुजयमहातीर्थमौलिमुकुटायमानस्य श्री[ युगादि ]तीर्थकर श्रीऋषभदेवभवनस्याग्र-प्रतोली का
रिता ॥ छ ॥ छ ॥
Jain Educationa International
भूयाद् भूवलयस्य वीरधवलः स्वाभी समुद्रावधेः श्रीमुद्राधिकृतः सुकृतिना येनाश्वराजात्मजः । यस्मा- विश्वोपकारवती ॥ १ ॥ धान्यात्मा खलु वस्तुपालसचिवः सर्वोऽपि सम्पद्यते, यत्संपर्कवशेन मेदुरमदोद्रेको विवेकी जनः । तज्जन्मा- -कौतुकम हो (?)- वितनुते नैवान्तरं किंचन ॥ २ ॥ त्यागाराधिनि राधेये कर्णैव भूरभृत् । उदिते वस्तुपाले तु द्विकर्णावर्ण्यतेऽधुना ॥ ३ ॥ श्रीवस्तुपालते [ जःपा ] लौ जगतीजनस्य चक्षुध्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रविशशिनोः ॥ ४ ॥
(९५)
--
For Personal and Private Use Only
www.jainelibrary.org