________________
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
पू. महामहोपाध्याय - न्यायविशारद - श्रीमद् यशोविजय- स्तुत्यष्टकं
( वसन्ततिलकाच्छन्द: )
. ( रचयिता- पू. कर्नाटक केशरी आ. श्री. भद्रंकरसूरिजी म. ) वन्दे यशोविजयवाचकवर्यधुर्यम्,
विद्या- सुधाव्यसनिनं शमिनं सुचर्यम् । श्रीमत्क्रियोद्धृति-कृतौ विधृतंक्य- धयम्, वादीभकुम्भदलने धृतसिह - शौर्यम्
वाल्येऽपि बुद्धिबलतो निजमातरं यः, भक्तामरस्तवन-संश्रवणे व्रतस्थां । पार्श्वे गुरोरधिकवृष्टि - कृतोपवास,
तद् श्रावणाद् विहितपारणकां चकार ||२||
ऍकारजापमसकृत् सुकृताढ्य - साध्यम्, गाङ्गे तटेऽतिशुचिमानसमानसेन । यो विश्वसारममितोदृति - मुख्यमूल्यम् श्री जैनवाक्- परमविस्तृतये चकार
पाठेऽतितीव्ररसमक्ष्य गुरोः सुभक्तः,
॥। १॥
f
॥३॥
प्रोचे गुरु गुणगुरु च भवान् सुशक्तः । श्रीहेमचन्द्र सदृशं निज-शिष्यमेनं,
काशी विहृत्य नवतर्कयुतं विधत्तांम् ॥४॥
काश गतो गुरुवरः सहशिष्य केण, तर्फे नवेऽध्ययनपारगतेरनु द्राग् । वादेऽथ वादिजयतो निपुणत्वपूर्वम्,
स्याद्वाद - नीति- नयमण्डन - सत्यपुष्ट्या ॥५॥ न्याये विशारदपदं समबुद्धवगैः,
काश्यास्तदा जयभृते समदायि यस्मै । वाण्या वरं जयपदं नवतर्क - सिद्धि,
काश्याः प्रपद्य स यशोविजयो यशस्वी ॥६॥ (त्रिभिविशेषकम् )
अष्टोत्तरं शतमही नवतर्कमिश्रान्.
ग्रन्थास्ततोऽधिकगुणान् रचयाञ्चकार । योऽध्यात्मयोगनय काव्यमयान् समुच्चान्
जीयाद् यशोविजय वाचकपुङ्गवः सः ॥७॥ विद्वद्यशोविजयवाचक - पुङ्गवाय,
न्यायप्रसाधकगणेऽतुल- रङ्गदाय । निर्मानिने वरमनस्विनृपूजिताय
तस्मै नमः प्रतिदिनं कृत- भूहिताय
॥८॥
( प्रशस्तिः, अनुष्टुभ् )
भुवनतिलकाचार्य-वर्य - पट्टभृता मया । कृतं भद्रं करेणेदं श्री - यशोविजयाष्टकम् ॥ ९ ॥