________________
पृ०१४९. पं० ३ .] टिप्पणानि ।
१२५ ननु प्रज्ञायां भगवत्याम् प्रज्ञापनायां च स्फुटं भणितमेव उक्तमेव यथा जिनः फेवली परमाणुरमप्रभादीनि वस्तूनि 'जं समयं जाणइत्ति' यस्मिन् समये जानाति 'न वि पासइ तंति' तस्मिन् समये नैव पश्यति किन्तु अन्यस्मिन् समये जानाति अन्यस्मिंस्तु पश्यति । इयमत्र भावना-इह भगवत्यां तावदष्टादशशतस्य अष्टमोद्देशके स्फुटमेवोक्तम् ; तद्यथा- छउमत्थे णं भंते ! मणुस्से परमाणुपोग्गलं किं जाणइ न पासइ उताहो न जाणइ न पासइ । गोयमा,' अत्यंगइए जाणइ न पासइ, अत्थेगइए न जाणइ न पासइ एवं जाव असंखिजपएसिए खंभे (इह छप्रस्थो निरतिशयो गृह्यते तत्र श्रुतज्ञानी श्रुतज्ञानेन परमाणुं जानाति न तु पश्यति भुते दर्शनाभावात् अपरस्तु न जानाति न पश्यति) एवं ओहिए वि । परमोहिए णं भंते ! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समयं जाणइ ? नो इणढे समहे। से केणटेणं भंते ! एवं वुच्चइ । गोयमा ! सागारे से नाणं भवइ अणागारे । से दंसणं भवइ, तेणटेणं एवं वुच्चइ इत्यादि । एवं प्रज्ञापनोक्तमपि द्रष्टव्यम् । तदेवं सिद्धान्ते स्फुटाक्षरैर्युगपदुपयोगे निषिद्धेऽपि किमिति सर्वानर्थमूलं तदभिमानमुत्सृज्य क्रमोपयोगो नेष्यते इति ? ॥ ३११२ ॥" विशेषा० टी० । [पृ०१३९. पं०३. 'सुषुप्तौ' - "अथ ज्ञानमात्रे त्वक्मनःसंयोगस्य यदि कारणत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् विषयत्वसंयोगस्य त्वमनासंयोगस्य च। सस्थात् परस्परप्रतिबन्धादेकमपि वा न स्यादिति" - मुक्तावली का० ५७ । [ ०१४२. पं० ४ . 'असतो णत्थि' -
"असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्धं । '
संजोगाइचउक्कं पि सिद्धमत्थंतरे निययं ॥" विशेषा० गा० १५७४ । पृ०९४३. पं०६. 'स्वभावहेतुक'-"केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न" युगपत्तदुपयोगसम्भवः, तथाजीवस्वाभाव्यात्” – नन्दी० म० पृ० १३६ । विशेषा• गा० ३१३४ ।
"क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवस्वाभाव्यादेव केवलज्ञानावरणकेवलदर्शना. परणक्षयेपि सततं तयोरप्रादुर्भावाविरोधात्" - नन्दी० म० पृ. १३८ । [ ०१४४ पं० १. 'पृथगेवावरण' - विशेषा० गा० ३०५५ । तत्त्वार्थ० टी० पृ० १११। [१०१४६. पं०८ . 'साद्यपर्यवसिते' -
___"जमपजंताई केवलाई तेणोभओवओगोत्ति । सायपर्यवसितत्वाद् यस्मादपर्यन्ते अविनाशिनी सदावस्थिते केवलज्ञानदर्शने तेन तस्माद् युगपदुपयोग इष्यते अस्माभिः । इह हि यद् बोधस्वभावं सदावस्थितं च तस्योपयोगेनापि सदा भवितव्यमेव, अन्यथा उपलशकलकल्पत्वेन बोधखभावत्वानुपपत्तेः । सदोपयोगे च द्वयोः युगपदुपयोगः सिद्ध एवेति परस्याभिप्रायः" - विशेषा० टी० गा• ३१..। [पृ०१४९. पं०३ . 'नवविधोपचारमध्ये -
"असद्भूतव्यवहारो द्रव्यादेरुपचारतः । परपरिणतिश्लेषजन्यो भेदो नवात्मकः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org