________________
१११
पृ० ९२. पं० २.]
टिप्पणानि । [पृ० ८९. पं०६] 'शक्तिविशेषेण -
"यद्याश्रयविनाशेऽपि शक्त्यनाशोऽभ्युपेयते ॥ १९५॥
क्षणिकत्वं च हीयेत न चारम्भोऽन्यथा भवेत् ।" श्लोक० आत्म०। ' [पृ० १०. पं० १]. 'कार्यकारणभावः' -
भङ्गुरे पूर्वसादृश्याद् भिन्नत्वाचास्ति वासना ॥ १८६ ॥ नैतदस्त्यनुरूपं तु क्षणिकत्वे धियां तव ।। पूर्वज्ञानं त्वनुत्पन्न कार्य नारभते क्वचित् ॥ १८७॥ .. न विनष्टं न तस्याऽस्ति निष्पन्नस्य क्षणं स्थितिः। .. तेनोत्पन्नविनष्टत्वान्नास्त्यारम्भक्षणोऽपि हि ॥ १८८॥ निरन्वयविशिष्टत्वादानुरूप्यं कुतः पुनः।। न तदीयोऽस्ति कश्चिच धर्म उत्तरबुद्धिषु ॥ १८९॥ निरन्वयविनाशिन्यः कुर्युः कार्य कथं क्रमात् । विनाशे कारणस्येप्टः कार्यारम्भश्च नान्यथा ॥ १९३॥ तत्रैव ज्ञाननाशेन विनष्टाः सर्ववासनाः। तेन सर्वाभ्य एताभ्यः सर्वाकारं यदुत्थितम् ॥ १९४ ॥
ज्ञानमेकक्षणेनैव विनाशं गन्तुमर्हति । श्लोक० आत्म० । श्लोक० शब्दनि० ४२८४४१। तत्त्वसं० ४८२-५०० । तत्त्वार्थश्लो० ७७-७९ । [पृ०९०. पं० २] 'वास्यवासकभावात्' -
"क्षणिकेपु च चित्तेषु विनाशे च निरन्वये ॥ १८१॥ वास्यवासकयोश्चैवमसाहित्यान्न वासना । पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तरः क्षणः ॥ १८२ ॥ उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना । साहित्येऽपि तयो व सम्बन्धोऽस्तीत्यवासना ॥ १८३ ॥ क्षणिकत्वाद् द्वयस्यापि व्यापारो न परस्परम् । विनश्यच्च कथं वस्तु वास्यतेऽन्येन नश्यता ॥ १८४ ॥ अवस्थिता हि वास्यन्ते भावाभावैरवस्थितैः । . अवस्थितो हि पूर्वस्माद्भिद्यते नोत्तरो यदि ॥१८५॥
पूर्ववद्वासना तत्र न स्यादेवाऽविशेषतः । श्लोक० आत्म• । स्याद्वादम० १०-१५ । [ पृ०९०. पं० ८7. 'लतायाम् - शास्त्रवा० यशो० पृ० २९-३९।। [पृ०९०. पं० २7. 'एतेन अखण्डा-' इतः प्रभृति पृ. ३३ यावत् प्रन्थकारेण . वेदान्तमतनिरासाय या चर्चा कृता तत्रत्यं खण्डनमण्डनं वेदान्तकल्पलतिकातः एव स्वानुकूल्येन गृहीतम् - वेदान्तक० पृ. ६-५२ । [पृ० ९२. पं० २] 'अन्यथासिद्धत्वेन' - "यत् कार्य प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते तत्कार्य प्रति तद्रूपमन्यथासिद्धम् - यथा घटं प्रति दण्डत्वमिति"मुक्ता. प्रत्य. का. १९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org