________________
पृ०६५. पं० .]
टिप्पणानि । सायेऽपि भ्रमविशेष्ये तत्प्रकारीभूतवैशिष्ट्यं भासत इति तुल्यतेति भावः । प्रावस्तु प्रमेयेव गृह्यते । प्रमात्वप्रकारेण गृह्यते इत्यर्थः इत्याहुः । तदसत् अनमानुव्यवसायेन प्रमात्वमहस्याशक्यत्वात् - तत्त्वचि० प्र० माथुरी• पृ० १७४। [पृ०५४. पं०]. 'जे एगं जाणह' - तुलना-विशेषा० गा० ३२० । [पृ०६१ : पं० १7. 'घट इत्यपायोत्तरमपि' -विशेषा० गा• २८२-२८८ । जैनतर्कभाषा । पृ.४४,४५। [पृ० ६३५० 7 'अङ्गोपाङ्ग - "सुयनाणे दुविहे पण्णत्ते-तं जहा-अंगपविढं वेव अंगबाहिरं चेव ॥” स्था० २.१.७१ । नन्दी० सू० ४४ । तत्त्वार्थ० १.२० । [पृ० ६४ पं० १], 'एकादीनि' - तत्त्वार्थसूत्रे तु इत्थं पाठः- "एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्व्यः ।" तत्त्वार्थ० १.३१. । __ "तद्यथा-कस्मिंश्चिज्जीवे मत्यादीनामेकं भवति कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित् त्रीणि भवन्ति । कस्मिंश्चित् चत्वारि भवन्ति । श्रुतज्ञानस्य मतिज्ञानेन नियतः सहभावः तत्पूर्वकत्वात् । यस्य श्रुतज्ञानं तस्य नियतं मतिज्ञानम् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद् वा न वेति ।" तत्त्वार्थ. भा०। ___ 'एकादीनि भाज्यानि' इत्यादिसूत्रीया सर्वार्थसिद्धिर्न भाष्यमनुधावति, । तत्र मतिश्रुतयोः । नियतसाहचर्यस्यैव प्रतिपादितत्वात् कदापि मतिज्ञानस्य श्रुतविरहिणोऽसंभवात् । [पृ० ६४ पं० २]. 'शब्दसंस्पृष्टार्थमात्रग्राहित्वेन' -
"अबे अणक्खरक्खरविसेसओ मइ-सुयाई भिंदन्ति ।
जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥१६२ ॥ अत्राचार्यों दूषणमाह -
जइ मइरणक्खरचिय भवेज नेहादओ निरभिलप्पे ।
थाणुपुरिसाइपजायविवेगो किह णु होजाहि ॥१६३ ॥ ___ यदि मतिरनक्षरैव स्यात् -अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाऽभिलापे स्थाण्वादिके वस्तुनि ईहादयो न प्रवर्तेरन् । ततः किम् ? इत्युच्यते-तस्यां मतावनक्षरत्वेन स्थाण्वादिविकल्पाभावात् - 'स्थाणुरयं पुरुषो वा' इत्यादिपर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात् । तथाहि यदनक्षरं ज्ञानं न तत्र स्थाणुपुरुषपर्यायादिविवेकः यथाऽवग्रहे, तथा चेहादयः, तस्मात् तेष्वपि नासौ प्राप्नोति ॥” - विशेषा० टी० । [पृ०६५ पं०८]. 'अर्धजरतीयन्याय' - "न चेदानीमर्धजरतीयं लभ्यम्... । तद्यथा। अर्ध जरत्याः कामयतेऽध नेति ।" पात• महा० ४.१.७८ ।।
"न चार्धजरतीयमुचितम् । न हि कुक्कुट्या एको भागः पाकायापरो भागः प्रसवाय कल्प्यतामिति।" सर्वद० बौद्ध० पृ. १४ । लौकिकन्या. १ पृ.८
ज्ञा० १४
..
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org