________________
१०४
ज्ञानबिन्दुप्रकरणस्य [पृ०१८ पं०५ -- यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः। घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥ ततो महाप्रयत्नेन संस्मृत्य किल किश्चन । तत्रासौ घोषयामास तुष्टो मापतुषेत्यलम् ॥ ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया । ख्यातिं नीतो महात्मासौ बालिशैः क्रीडनापरैः॥ एवं सामायिकाद्यर्थेऽप्यशक्तो गुरुभक्तितः। ....
ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥" उपदेशपदटीका गा० १९३ । [ पृ० १८. पं०५]. 'खतो ग्राह्यत्व' - "स्वकीयेभ्य एष खजनकसामग्री-स्वजन्यस्वप्र" त्यक्षसामग्री-स्वजन्यज्ञाततालिङ्गकानुमितिसामग्र्यन्यतमेभ्य इति यावत् । अत्र स्वस्यैव स्वप्रामाण्यविषयकतया वजनकसामध्येव स्वनिष्ठप्रामाण्यनिश्चायिका इति गुरवः । खोत्तरवर्तिस्वविषयकलौकिकप्रत्यक्षस्य स्वनिष्ठप्रामाण्यविषयकतया स्वजन्यस्वविषयकप्रत्यक्षसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका इति मिश्राः । ज्ञानस्यातीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री खनिष्ठप्रामाण्यनिश्चायिका इति भाट्टाः ।" तत्त्वचि० प्र० पू० १२६ । ॥ तर्कवी. नीलकंठी पृ० ३६४ । ... ... ... . .
. .. . [ पृ०४९: पं०६]. "न्यायनयेपि - "तथापि तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिध्यज्ञानत्वं वा प्रामाण्यं तन्निश्चयादेव निष्कम्पव्यवहारात् लापवात् , नान्यद् गौरवात् । तब ज्ञानप्राहकसामग्रीमायमेव; तथाहि-विशेष्ये तद्धर्मवत्त्वं तद्धर्मप्रकारकत्वं च व्यवसायस्य अनुव्यवसायेन अनुमित्या स्वप्रकाशेन वा गृह्यते विषयनिरूप्यं हि ज्ञानम् अतो "ज्ञानवित्तिवेद्यो विषयः इति व्यवसाये भासमाने धर्मधर्मिवत् तद्वैशिष्ट्यमपि विषयव्यवसायरूपप्रत्यासत्तेः तुल्यत्वात् सम्बन्धितावच्छेदकरूपवत्तया ज्ञायमाने सम्बन्धिनि ससम्बन्धिकपदार्थनिरूपणम् इत्यनुव्यवसायस्य रजतत्वावच्छिन्नत्वेन पुरोवर्तिविषयत्वाच । अन्यथा पुरोवर्त्तिनं रजतं च जानामि इति तदाकारः स्यात्, न तु रजतत्वेन पुरोवर्तिनमिति ।" -- तत्त्वन्धि० प्र० पृ० १७० । कुसुमा० वि० स्त. पृ० ९ । "[ पृ०५० . पं०४]. 'अत एवेदं रजतमिति' - "एतेनेदं रजतमिति तादात्म्यारोपण्या
वर्त्तनाय प्रामाण्यशरीरे मुख्यविशेष्यता निवेश्या, मुख्यविशेष्यता च प्रकारतानवच्छिन्न.. विशेष्यता तत्र च प्रकारतानवच्छिन्नत्वं न स्वतो प्रायमिति" - प्रामाण्यवाद गादाधरी पृ० १६० । [पृ०५२ . पं०५] 'प्रामाण्यमस्तु' - "वस्तुतस्तु विशेष्यितासम्बन्धेन तद्धर्मवदवच्छिन्नं प्रकारितासम्बन्धेन तद्धर्मवत्त्वमपि प्रामाण्यम्" तत्त्वचि० प्र० माधुरी० पृ० १७५। [ पृ०५३. पं०१]. 'अप्रामाण्य - "तदभाववति तत्प्रकारकज्ञानत्वमप्रामाण्यं परतो शायते तदभाववत्त्वस्य भ्रमानुल्लिखितत्वेन अनुव्यवसायाविषयत्वात्" -- तत्त्वचि० प्र० पृ० १०६ । "[पृ०५३. पं० ४.] तात्रिकः' - "प्रमेत्येवेति एवशब्दस्तुल्यार्थे प्रमेत्याकारकज्ञानजन्यो योऽनुव्यवसायस्तद्विषय इत्यर्थः । तुल्यतामेवोपपादयति अनुव्यवसायस्येति-तथा च तज्शाने यथा विषयीभूतव्यवसायविशेष्ये तत्प्रकारीभूतधर्मवैशिष्टयं भासते तथा भ्रमानुव्यव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org