________________
ज्ञानविन्दुप्रकरणस्य [पृ०२९५०५ - . अथ न तवेष्टं मतं यथा चिरमपि गवेष्य भिन्नं गृहीतव्यम्, तत उच्यते-यावत् तत् मिन्नं वस्त्रं मार्गयति तावत्तस्य श्रुतादौ सूत्रार्थपौरुष्यादौ हानिर्भवति । अपि च य एव वस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणशुद्धिविभूषापरिहारप्रभृतीनां गुणानां भूत्या संपदा युक्तः बहुगुणकलित इति भावः । कुत इत्याह । यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वन्ति न पुनस्तत्राधिकं किमपि सूत्रार्थव्याघातादिकं दूषणमस्तीति । अथ 'जा यावि चिट्ठा इरियाइयाओं इत्यादि परोक्तं परिहरन्नाह -
आहारणीहारविहीसु जोगो सब्यो अदोसाय जहा जतस्स ।
हियाय सस्संमिव सस्सियस्स भंडस्स एवं परिकम्मणं तु ॥ यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविधिविषयः सर्वोऽपि योगो भवन्मतेनापि ॥ अदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेवमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह - 'हियाय सरसंमिव सस्सियस्स त्ति' - शस्येन परति शास्यिकः तस्य, यथा तद्विषयं परिकर्मणं निहिणनादिकं हिताय भवति तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तम् -
"यद्वत्शस्यहितार्थ शस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति शस्यपीडा यत्नवतः साल्पदोषाय ॥ तद्वजीवहितार्थ जीवाकीर्णेऽपि विचरतो लोके ।
या भवति जीवपीडा यत्नवतः साल्पदोषाय ॥" किञ्च
अप्पेव सिद्धतमजाणमाणो तं हिंसगं भाससि योगवंतं ।
दव्वेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगचे ॥ 'अपि' इत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं वस्त्रच्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे, तत् निश्चीयते सम्यकसिद्धान्तमजानान एवं प्रलपसि । न हि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवयेते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यते इत्याह । द्रव्येण " भावेन च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति । तथाहि । द्रव्यतो नामैका हिंसा न भावतः । भावतो नामैका हिंसा न द्रव्यतः । एका द्रव्यतोऽपि भावतोऽपि । एका न द्रव्यतो नापि भावतः । अथैषामेव यथाक्रमं भावनां कुर्वन्नाह -
आहच्च हिंसा समियस्स जा तू सा दव्वओ होइ ण भावतो उ । भावेण हिंसा तु असंजतस्सा, जे वा वि सत्ते ण सदा वधेति ॥ संपत्ति तस्सेव जदा भविजा सा दव्वहिंसा खलु भावओ अ।
अज्झत्थसुद्धस्स जदा ण होजा वधेण जोगो दुहतो वहिंसा ॥ समितस्पेर्यासमितावुपयुक्तस्य याऽऽहच्च कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतोऽहिंसैव मन्तव्या । 'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' इति वचनात्, न भावत इति । भावेन भावतो या हिंसा न तु द्रव्यतः सा असंयतस्य प्राणाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org