________________
१०२९ पं० ५.]
टिप्पणानि । - यथा यथा से' तस्य जीवस्याल्पतरो योगस्तथा 'से' वस्य अल्पतरो बंधो भवति, यो वा निरुद्धयोगी शैलेश्यवस्थायां सर्वथा मनोवाकायव्यापारविरहितः तस्य कर्मबन्धो व भवति । दृष्टान्तमाह - अच्छिद्रपोतस्येवाम्बुनाथे, यथा किल निश्छिद्रप्रवहणं सलिलसंचयसंपूर्णेपि जलधौ वर्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्रलैरञ्जनचूर्णपूर्णसमुद्रकवनिरन्तरं निचितेपि लोके वर्तमानः स्वल्पीयोपि कर्म। नोपादतेऽतः कर्मबन्धस्य योगान्वयव्यतिरेकानुविधायितया तत्परिजिहीर्षुणा वनच्छेदनाविव्यापारो न विधेयः । इत्थं परेण स्वपक्षे स्थापिते सति सूरिराह
आरंभमिट्ठो जइ आसवाय गुत्ती य सेआय तहा नु साहू।
मा फंद वारेहि व छिजमाणं पतिण्णहाणी व अतोण्णहा ते ॥ आरंभमिट्ठोत्ति मकारोऽलाक्षणिकः, हे नोदक यद्यारंभस्तवाश्रवाय कर्मोपादानाय इष्टो-।। ऽभिप्रेता, गुप्तिश्च तत्परिहाररूपा श्रेयसे- कर्मानुपादानाय अभिप्रेता तथा च सति हे साधो मा स्पंद, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति । यदि वखच्छेदनं आरंभत्या भवता कर्मबन्धनिबन्धनमभ्युपगम्यते, ततो येयं वनच्छेदनप्रतिषेधाय हस्तस्पन्दमात्मिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुचार्यते तावप्यारम्भतया भवता न कर्तब्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि ततः ते प्रतिज्ञाहानिः । स्ववचनविरोध- ॥ लक्षणं दूषणमापद्यत इत्यर्थः । अथ ब्रवीथा योऽयं मया वषच्छेदनप्रतिषेधको ध्वनिरुवार्यते स आरम्भप्रतिषेधकत्वानिर्दोष इति । अत्रोच्यते
अदोसवं ते जइ एस सद्दो अण्णो वि कम्हा ण भवे अदोसो। __ अहिच्छया तुज्झ सदोस एको एवं सती कस्स भवे न सिद्धी ॥ ययेष त्वदीयः शब्दोऽदोषवान् ततोऽन्योऽपि वरच्छेदनादिसमुत्थः शब्दः कस्मादपोषो. न भवेत् । तस्यापि प्रमाणातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् । अथेच्छया खाभिप्रायेण तवैको वस्त्रच्छेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् । सर्वस्यापि वागाडम्बरमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ववचास्माभिरपि एवं वक्तुं शक्यम् - योयं वनच्छेदनसमुत्थः शब्दः स निर्दोषा, शब्दत्वात् , भवत्परिकल्पितनिर्दोषशब्दवदिति । किं च- .
तं छिंदओ होज सई तु दोसो खोभाइ तं चेव जओ करे। ... जं पेहतो होति दिणे दिणे तु संपाउणंते य णिबुज्झ ते वि ॥ __ यतस्तदेव वस्त्र छिद्यमानं पुद्गलानां क्षोमादि करोति अतस्तद्वस्त्रं छिन्दतः सकदेकवार दोषो भवेत् , अच्छिद्यमाने तु वस्ने प्रमाणातिरिक्तं तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः अप्रत्युपेक्षणा दोषा दिने दिने भवन्ति, ये च तद्वतं संप्रावृण्वतो विभूषादयो बहवो दोषा- . खानपि निबुध्यख अक्षिणी निमील्य सम्यग् निरूपय इति भावः । आह-यदि ववच्छेदने , युष्मन्मतेनापि सकदोषः संभवति ततः परिहियतामसौ गृहस्थैः स्खयोगेनैव यशिमं वर्ष वदेव गृह्यताम् । उच्यते
घेतव्वगं भिन्नमहिच्छियं ते जा मग्गते हाणि सुतादि ताव । अप्पेस दोसो गुणभूतिजुत्तो पमाणमेवं तु जतो करिति ।।..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org