________________
ज्ञान बिन्दुप्रकरणस्य
[ ४०२६. पं० २ - बहुत भावश्रुतात् मतिर्नास्ति - भावश्रुतपूर्विका मतिर्न भवति । द्रव्यश्रुतप्रभवा तु भवतु को दोष: ? ।” विशेषा० टी० गा० १०९ ।
"ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ? । भावश्रुताद् मतिः कार्यतयैवे नास्तीति । क्रमशस्तु मतिर्नास्तीत्येवं न । किन्तर्हि ? क्रमशः सा अस्ति इत्येतत् सर्वोऽपि • मन्यते अन्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । मत्या श्रुतोपयोगो जन्यते । तदुपरमे तु निजकारणकलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते पुनस्तथैव श्रुतम् । तथैव श्च मतिः । इदमुक्तं भवति - यथा सामान्यभूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणालीयकादयो जन्यन्ते, अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्ण त्वतज्जन्यत्वात् तत्कार्य - तया न व्यवह्रियते, तस्य कारणान्तरेभ्यः सिद्धत्वात्, कङ्कणादिविशेषोपरमे तु सुवर्णाव" स्थानं क्रमेण न निवार्यते; एवं मत्यापि सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्य स उच्यते, मतिस्त्वतज्जन्यत्वात् तत्कार्यतया न व्यपदिश्यते, तस्या हेत्वन्तरात् सदा सिद्धत्वात् स्वविशेषभूतश्रुतोपयोगोपर मे तु क्रमायातं मत्यवस्थानं न निवार्यते, मरणान्तं केवलश्रुतोपयोगप्रसङ्गात् ।” विशेषा० टी० गा० ११० ।
190
[ पृ०२६. पं० २] 'कथं तर्हि श्रुत' – “आभिनिबोहियनाणं दुविहं पण्णत्तं तं जहा सुय॥ निस्सियं च असुयनिस्सियं च ।” नन्दी ० सू० २६ ।
20
“तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम् - अवग्रहादि । यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्श मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमौत्पत्तिक्यादि ।” नन्दी० म० पृ० १४४ A ।
“तदेवं श्रुतनिश्रितवचनश्रवणमात्राद् विभ्रान्तस्तत् स्वरूपमजानानः परो युक्तिभिर्निराकृतोऽपि विलक्षीभूतः प्राह - तर्हि श्रुतनिश्रितमेवावग्रहादिकं सूत्रे केन प्रकारेण भणितम् ? अत्रोच्यते श्रुतं द्विविधं - परोपदेशः आगमप्रन्थश्च । व्यवहारकालात् पूर्वं तेन श्रुतेन कृत उपकारः संस्काराधानरूपो यस्य तत् कृतश्रुतोपकारम् । यज्ज्ञानमिदानीं तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराधायकश्रुतस्यानपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते न तु अक्षरा - " भिलाभ युक्तत्वमात्रेण इति ।" विशेषा० टी० गा० १६८ ।
[ पृ० २६ पं० ८ ] 'मतिज्ञानमौत्पत्तिक्यादि' - " असुअनिस्सिमं चउविहं पद्मन्तं, तंजा - उप्पत्तिआ, वेणइआ, कम्मया, परिणामिआ ।” नन्दी० सू० २६ ।
Jain Education International
"पुव्वं अदिट्ठमस्सुअमवेइयतक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगा बुद्धी उप्पत्तिया नाम ॥ भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ॥ उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवइ बुद्धी ॥ अणुमा उदितसाहिआ वयविवागपरिणामा । हिअनिस्से असफलवई बुद्धी परिणामिआ नाम ||" नन्दि० सू० २७ ।
For Private & Personal Use Only
www.jainelibrary.org