________________
ज्ञानबिन्दुप्रकरणस्य [पृ० १४५० २किमिति न भवति ? इति चेत् । तदयुक्तम् । 'सिद्धे नो चरित्ती नो अचरित्ती' इति वचनात् । क्षायिकसम्यक्त्व-केवलज्ञान-केवल-दर्शन-सिद्धत्वानि पुनः सिद्धावस्थायामपि भवन्ति, अतः तान्याश्रित्य क्षायिको भावः सादिरपर्यवसान इति । अन्ये तु दानादिलब्धिपञ्चक चारित्रं च सिद्धस्यापीच्छन्ति तदावरणस्य तत्राप्यभावात् । आवरणाभावेऽपि च तदसत्त्वे क्षीणमोहादिष्वपि तदसत्त्वप्रसंगात् । ततस्तन्मतेन चारित्रादीनां सिद्ध्यवस्थायामपि सद्भावेन अपर्यवसितत्वात् एकस्मिन् द्वितीयभङ्ग एव क्षायिको भावो न शेषेषु त्रिष्विति ।" विशेषा० टी० गा० २०७८ । ज्ञानसार ३.८ ।
पृ० १५ पं० २. 'क्षयोपशम' - “उभयात्मको मिश्रः । यथा तस्मिन्नेवाम्भसि कतकाविद्रव्यसंबन्धात् पङ्कस्य क्षीणाक्षीणवृत्तिः" - सर्वार्थ० २.१ । ॥ "सर्वघातिस्पर्धकानामुदयक्षयात् तेषामेव सदुपशमाद् देशघातिस्पर्धकानामुदये क्षायोपशमिको भावो भवति" - सर्वार्थ० २.५ ।
"उभयात्मको मिश्रः क्षीणाक्षीणमदशक्तिकोद्रववत् ॥ ३ ॥ यथा प्रक्षालनविशेषात् क्षीणाक्षीणमदशक्तिकस्य कोद्रवद्रव्यस्य द्विधा वृत्तिः तथा यथोक्तक्षयहेतुसन्निधाने सति कर्मण एकदेशस्य क्षयात् एकदेशस्य च वीर्योपशमादात्मनो भाव उभयात्मको मिश्र इति . ॥ व्यपदिश्यते ॥” राजवा० २.१ ।।
"सर्वघातिस्पर्धकानामुदयक्षयात् तेषामेव सदुपशमाद्देशघातिस्पर्धकानामुदये क्षायोपशमिको भावः ॥ २ ॥ द्विविधं स्पर्धकम् - देशघातिस्पर्धकं सर्वघातिस्पर्धकं चेति । तत्र यदा सर्वघातिस्पर्धकस्योदयो भवति तदेषदपि आत्मगुणस्याभिव्यक्तिर्नास्ति तस्मात्तदुदयस्याभाव: क्षय इत्युच्यते । तस्यैव सर्वघातिस्पर्धकस्यानुदयप्राप्तस्य सदवस्था उपशम इत्युच्यते । अनु"तस्ववीर्यवृत्तित्वादात्मसाद्भावितसर्वघातिस्पर्धकस्योदयक्षये देशघातिस्पर्धकस्य चोदये सति सर्वघात्यभावादुपलभ्यमानो भावः क्षायोपशमिक इत्युच्यते ॥" राजवा० २.५ । पञ्च० म०प्र० पृ० १३३-१४६ । कर्म• गा० ८१४ ।
पृ०४६०३. रसस्पर्धकानि' - "अविभागपरिच्छिन्नकर्मप्रदेशरसभागप्रचयपतिमवृद्धिः क्रमहानिः स्पर्धकम् ।। ३ ॥ उदयप्राप्तस्य कर्मणः प्रदेशा अभव्यानामनन्तगुणा: सिद्धानामनन्तभागप्रमाणाः । तत्र सर्वजघन्यगुणः प्रदेशः परिगृहीतः, तस्यानुभागः प्रज्ञाच्छेदेन तावद्वारपरिच्छिन्नः यावत्पुनर्विभागो न भवति ते अविभागपरिच्छेदाः सर्वजीवानामनन्तगुणाः एको राशिः कृतः [वर्ग:]। एवं तत्प्रमाणाः सर्वे तथैव परिच्छिन्नाः पङ्कीकृता वर्गाः वर्गणा । अपर एकाविभागपरिच्छेदाधिका प्रदेशः परिगृहीतस्तथैव तस्याविभागपरिच्छेदाः कृताः स एको राशिर्वर्गः । तथैव समगुणाः पङ्गीकृताः वर्गा वर्गणाः । एवं पतयः "कता यावदेकाविभागपरिच्छेदाधिकलाभम् । तदलाभेऽनन्तरं भवत्येवमेतासां पङ्खीनां विशेष. हीनानां क्रमवृद्धिक्रमहानियुक्तानां समुदयः स्पर्धकमित्युच्यते । तत उपरि द्वित्रिचतुःसंख्येयासंख्येयगुणरसा न लभ्यन्ते अनन्तगुणरसा एव । तत्रैकप्रदेशो जघन्यगुणः परिगृहीतः तस्य पानुभागाविभागपरिच्छेदाः पूर्ववत् कृताः । एवं समगुणा वर्गाः समुदिता वर्गणा भवति । एकाविभागपरिच्छेदाधिकाः पूर्ववद्विरलीकृताः वर्गा वर्गणाश्च भवन्ति यावदन्तरं भवति सावदेकस्पर्धकं भवति । एषमनेन क्रमेण विभागे क्रियमाणे अभव्यानामनन्तगुणानि सिद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org