________________
पृ०७ पं० २]
टिप्पणानि । सादित्वात्तेषामनायज्ञानाश्रयत्वानुपपत्तिरिति चेत् । अन्त:करणेपि तुल्यम् । सत्कार्यवादाश्र. यणान साधन्तःकरणमिति चेत् । चक्षुरादावपि तुल्यम् । अतो न तइनायज्ञानाश्रयमिति । अनृतनीहारादिशब्दैश्च प्राप्तज्ञानानामग्रहणवतां चेतनानामेवावृतत्वाभिधानानान्त:करणाश्रयमज्ञानं किन्तु चैतन्याश्रयमित्यलमतिविस्तरेण" - पंच० विव० पृ० ४५-४६ वाचस्पतिकृतं स्वमतोपपादनं चेत्थम् -
"अनेन अन्तःकरणाचवच्छिन्नः प्रत्यगात्मा इदमनिदरूपः चेतनः कर्ता भोक्ता कार्यकारणाऽविद्याद्वयाधारः अहङ्कारास्पदं संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासोपादानः तदुपादानश्च अध्यासः इत्यनादित्वाद् बीजाडरवत् नेतरेतराश्रयत्वमित्युक्त भवति ।" भामती पृ० ४५
"नाऽविद्या ब्रह्माश्रया, किन्तु जीवे । सा तु अनिर्वचनीया इत्युक्तम् , तेन नित्यशुद्धमेव ।। ब्रह्म ।" भामती पृ० १२६
विद्यारण्यस्वामिना स्वकीये विवरणप्रमेयसंग्रहे मंडनमिश्रीयं वाचस्पतिमिश्रवर्णितम् अज्ञानस्य जीवाश्रयत्वपक्षं सविस्तरं निरस्यता प्रसंगात् भास्करसम्मतम् अज्ञानस्य अन्त:करणाश्रयत्वपक्षमपि निरस्य सर्वज्ञात्ममुनिसम्मतः विवरणाचार्योफ्पादितश्च अज्ञानस्य ब्रह्माश्रयत्वपक्षः उपोदलितः । तद्यथा- "यद्यप्यसावविद्या चिन्मात्रसंबन्धिनी जीवब्रह्मणी विभ-॥ जते तथापि ब्रह्मस्वरूपमुपेक्ष्य जीवभाग एव पक्षपातिनी संसार जनयेद् यथा मुखमात्रसंबन्धि दर्पणादिकं बिम्बप्रतिबिम्बो विभज्य प्रतिबिम्बभाग एवातिशयमादधाति तद्वत् । नन्वहमश इत्यहवारविशिष्टात्माश्रितमज्ञानमवभासते न चिन्मात्राश्रितमिति चेत् मैवम् । यतदयो दहतीत्यत्र दग्धृत्वायसोरेकामिसंबन्धात् परस्परसंबन्धावभासः तद्वदज्ञानान्तःकरणयोरेकात्मसंबन्धादेव सामानाधिकरण्यावभासो न त्वन्तःकरणस्याज्ञानाश्रयत्वात् । अन्यथाऽवियासंबन्धे सत्यन्तःकरणसिद्धिरन्त:करणविशिष्टे चाविद्यासंबन्ध इति स्यादन्योन्याश्रयता । न चान्तःकरणमन्तरेणाविद्यासंबन्धो न दृष्टचरः सुषुप्ते संमतत्वात् । अथासङ्गस्य चैतन्यस्सा. श्रयत्वानुपपत्तेर्विशिष्टाश्रयत्वं कल्प्यत इति चेत्, तदाप्यन्तःकरणचैतन्यतत्संबन्धानामेव विशिष्टत्वे चैतन्यस्याश्रयत्वं दुर्वारम् । अन्यदेव तेभ्यो विशिष्टमिति चेत् तथापि जडस्य तस्य नाज्ञानाश्रयत्वम् । अन्यथा भ्रान्तिसम्यग्ज्ञानमोक्षाणामपि जडाश्रयत्वप्रसङ्गात् , अज्ञानेन । सहकाश्रयत्वनियमात् । न च चैतन्यस्य काल्पनिकेनाश्रयत्वेन वास्तवं असङ्गत्वं विहन्यते । अतश्चिन्मात्राश्रितमज्ञानं जीवपक्षपातित्वाज्जीवाश्रितमित्युच्यते।
यस्तु भास्करोऽन्तःकरणस्यैवाज्ञानाश्रयत्वं मन्यते तस्य तावदात्मनः सदा सर्वज्ञत्वमनुभवविरुद्धम् । असर्वज्ञत्वे च कदाचित् किंचिन्न जानातीत्यज्ञानमात्मन्यभ्युपेयमेव । अथा- । प्रहणमिथ्याज्ञानयोरात्माश्रयत्वेऽपि भावरूपमशानमन्तःकरणाश्रयमिति मन्यसे तदापि . सानादन्यवेदज्ञानं काचकामलायेव तत्स्यात् । अथ ज्ञानविरोधि तन्न । आत्माश्रितज्ञानेनान्त:करणाश्रितस्याज्ञानस्य विरोधासंभवात् । एकस्मिन्नपि विषये देवदत्तनिष्ठझानेन यज्ञदत्तनिष्ठामानस्यानिवृत्तेः । अन्यत्र भिन्नाश्रययोरविरोधेऽपि करणगतमज्ञानं कर्तृगतज्ञानेन विरुध्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org