________________
५६
ज्ञान बिन्दुप्रकरणस्य
अन्यत्रापि तथा बहुश्रुतवचः पूर्वापरालोचनात् । नेतव्यं परिहृत्य मंडनवचः तद्ध्यन्यथा प्रस्थितम् ॥”
अस्याः कारिकायाष्टीकायां स्पष्टमेव मण्डनमतं निर्दिष्टम् । तथाहि
"कथं तर्हि मण्डनमिश्रादयो जीवस्याज्ञानाश्रयत्वमभिदधुः इत्याशङ्कय तद्धि मतान्तरं • भाष्यकारीयमतं तन्नेत्याह - 'परिहृत्येति' - मण्डनवचो नोक्ताशयेन वर्णनीयम् ।”
[ पृ० ७ पं० २
25
प्रकाशात्मयतिनाम्ना विवरणाचार्येण सर्वज्ञात्ममुनि समर्थितोऽज्ञानस्य ब्रह्माश्रयत्वपक्ष उपपादितः निरस्तश्च तस्य जीवाश्रितत्वपक्षः ।
वाचस्पतिमिश्रेण तु मण्डनमिश्रीयत्वेन सर्वज्ञात्ममुनिनिरस्त एव अज्ञानस्य जीवाश्रयत्वपक्षः स्वकीयायां भामत्यां भाष्यव्याख्याप्रसङ्गेन वर्णितः । अत एव अज्ञानस्य ब्रह्माश्रयत्व10 पक्षः विवरणाचार्य प्रस्थानत्वेन, तस्य च जीवाश्रयत्वपक्षः वाचस्पतिप्रस्थानत्वेन वेदान्तपरंपरायां व्यवहियमाणो दृश्यते । इममेव व्यवहारमाश्रित्य ग्रन्थकारेण उक्तपक्षद्वयं क्रमशः विवरणाचार्यमतत्वेन वाचस्पतिमतत्वेन च निर्दिश्य अत्र प्रन्थे समालोचितम् -
विवरणाचार्यकृतं स्वमतोपपादनं चेत्थम् -
"तु किमाश्रयेयमविद्या । न तावदन्तःकरणविशिष्टस्वरूपाश्रया प्रमाणाभावात् । ननु ॥ अहमश इति प्रतिभास एव विशिष्टाश्रयत्वे प्रमाणम् नाहमनुभवामीत्यनुभवस्यापि चैतन्यप्रकाशस्य विशिष्टाश्रयत्वप्रसङ्गात् । ननु यथा अयो दहतीति दग्धृत्वायसोरेकाग्निसंबंधात् परस्परसंबंधावभासः तथानुभवान्तःकरणयोरेकात्मसंबंधात्तथावभासो नान्तःकरणस्यानुभवाश्रयत्वादिति चेत् । एवमज्ञानान्तःकरणयोरेकात्म संबन्धादहमज्ञ इत्यवभासो नान्तःकरणस्याज्ञानसंबन्धादिति तुल्यम् । प्रतीतेरन्यथासिद्धौ परस्परसंबन्धकल्पनायोगादात्मनि अविद्या20 संबन्धस्य सुषुप्तेपि संप्रतिपन्नत्वाच्च । अथ स्वरूपमाश्राश्रयत्वानुपपत्तेर्विशिष्टाश्रयत्वं कल्प्यत इति चेत् । न । विशिष्टेऽपि स्वरूपसंबन्धस्य विद्यमानत्वाज्जडस्य चाज्ञानाश्रयत्वे भ्रान्तिसम्यज्ञानयोरपि तदाश्रयत्वप्रसंगात् । ननु स्वरूपेऽपि ब्रह्मण्यनुपपत्तिस्तुल्या । सत्यम् । अनुपपन्नद्वयाश्रयत्वकल्पनाद्वरं संप्रतिपन्नस्वरूपाश्रयत्वोपादानम्, मोक्षावस्थासंबन्धिन एव संबन्धाश्रयत्वात् ।
अत्र कश्चिदन्तःकरणस्यैवाज्ञानमिति जल्पति । स वक्तव्यः किमात्मा सर्वज्ञः किंचिज्शो वेति । किंचिज्ज्ञत्वे कदाचित् किंचिन्न जानातीति विषयानवबोधस्त्वयैवात्मनो दर्शितः । अथाप्रहणमिथ्याज्ञानयोरात्माश्रयत्वेपि भावरूपाज्ञानमन्तःकरणाश्रयमिति । किं तत् । ज्ञानादन्यवेदज्ञानम् । काच कामलादीनामप्यज्ञानत्वान्न विवादः । अथ ज्ञानविरोधीति । न, भिनाश्रययोर्ज्ञानाज्ञानयोरेकविषययोरपि विरोधित्वादर्शनात् । करणाश्रयमज्ञानं कर्नाश्रय10 ज्ञानेन विरुध्यत इति चेत् । न । प्रमाणाभावात् । पुरुषान्तरसुषुप्तौ च तदीयेनान्तःकरणेन लीयमानेन करणभूतेन तनिमित्तकर्मानुमानेपि तदीयान्तः करणाज्ञान निवृन्त्यदर्शनात् । भ्रान्तिनिमित्तदोषत्वात् काचादिवत् करणाश्रयमज्ञानमिति चेन्न, चक्षुरादावपि प्रसंगात् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org