SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥ सकलाऽर्हत्स्तोत्रम् ॥ सकलाऽहत्प्रतिष्ठानमधिष्ठानं शिवश्रियः । भुर्भुवःस्वस्त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥ १॥ . नामाऽऽकृतिद्रव्यभावैःपुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥ २ ॥ आदिम पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः ॥ ३ ।। अर्हन्तमजितं विश्वकमलाकरभास्करम् । अम्लानकेवलाऽऽदर्शसङ्क्रान्तजगतं स्तुवे ।। ४ ।। विश्वभव्यजनाऽऽरामकुल्यातुल्या जयन्ति ताः । देशनासमये वाचःश्रीसम्भवजगत्पतेः ॥ ५ ॥ अनेकान्तमताऽम्भोधिसमुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं भगवानभिनन्दनः ॥ ६ ॥ धुसकिरीटशाणामोतेजिताघिनखावलिः । भगवान् सुमतिखामी तनोत्वभिमतानि कः ॥ ७ ॥ प्रद्मप्रभप्रभोदेहभासः पुष्णन्तु वः श्रियम् । अन्तरङ्गारिमथने कोपाऽऽटोपादिवाऽरुणाः ॥ ८ ॥ श्रीसुपार्श्वजिनेन्द्राय महेन्द्रमहिताङ्मये । नमश्चतुर्वर्णसङ्घगगनाऽऽभोगभास्वते ॥ ९॥ चन्द्रप्रभप्रभोश्चन्द्रमरीचिनिचयोज्ज्वला । मूर्तिमूर्तसितध्याननिर्मितेव श्रियेऽस्तु वः ॥ १० ॥ करामलकवद्विश्वं कलयन् केवलश्रिया । अचिन्त्यमाहात्म्यनिधिः सुविधिर्बोधयेऽस्तु वः ॥ ११ ॥ सत्त्वानां परमानन्दकन्दोद्भेदनवाऽम्बुदः । स्याद्वादाऽमृतनिःस्यन्दी शीतलः पातु वो जिनः ॥ १२ ॥ 41 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005252
Book TitleHemsiddhi
Original Sutra AuthorN/A
AuthorVinod Kapashi
PublisherZaveri Foundation
Publication Year
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy