________________
GOv000000Crvaro0000000000000474MARATHom.
दक्षिण विहारि सदगुरुवर्य श्रीमदर विजय मु नपुङ्गव
गुणस्तुत्यष्टकम. मन्दाक्रान्तावृत्तम् ।
00000000000000000000000000000000000000000000000000000
पायं पायं भवभयहरी वाक्सुधां यो गुरूणां श्रायं श्रायं विरतहृदयो जैनदीक्षां वरेण्याम् । लायं लायं ह्य विचलमनाः शीक्षणं योऽवुधच्च सोऽयं दद्यादमरविजयः सदगुरुमङ्गलं नः ॥ जापं जापं प्रकटविभवं तीर्थकृन्नाममन्त्रं वाएं वापं भविकहृदयक्ष्मासु सद्धर्मबीजम् । तापं तापं दुरितततिहृत दुस्तपो या व्यराजत सोऽयं दद्यादमरविजयः सद्गुरुमङ्गलं नः ॥२॥ शाम शामं भवततिकरान् यः स्वकीयान कषायान् दामं दामं भुवनजयिनं चेन्द्रियग्राममुग्रम् । वामं वामं विकलितजगन्मोहसीधु व्यलासीत् सोऽयं दद्यादमरविजयः सद्गुरुर्मङ्गलं नः ॥३॥ भ्रामं भ्रामं जगति च जिनाधीशतीर्थषु भक्त्या नाम नामं सुरनरनताः सादरं जैनमूर्तीः । रामं रामं निजगुणगणे योऽशुधत् सौवचेतः सोऽयं दद्यादमरविजयः सदगुरुमगलं नः ॥४॥
00030000000000000000000000DOOMDEVOOMon
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org