SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३०८ ગ્રન્થ યુગલ अयत्नसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि । अन्यथा योगतस्तस्मान्न दुःखं योगिनां क्वचित् ॥ १०० ॥ स्वप्ने दृष्टे विनष्टेऽपि न नाशोऽस्ति यथाऽऽत्मनः । तथा जागरदृष्टेऽपि विपर्यासाविशेषतः ॥ १०१ ॥ अदुःखभावितं ज्ञानं क्षीयते दुःखसन्निधौ । तस्माद्यथाबलं दुःखैरात्मानं भावयेन्मुनिः ॥ १०२ ॥ प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात् । वायोः शरीरयंत्राणि वर्तन्ते स्वेषु कर्मसु ॥ १०३ ॥ तान्यात्मनि समारोप्य साक्षाण्यास्ते सुखं जडः । त्यक्त्वाऽऽरोपं पुनर्विद्वान् प्राप्नोति परमं पदम् ॥ १०४॥ (वसंततिलका) मुक्त्वा परत्र परबुद्धिमहंधियं च संसारदुःखजननीं जननाद्विमुक्तः । ज्योतिर्मयं सुखमुपैति परात्मनिष्ठस्तन्मार्गमेतदधिगम्य समाधितंत्रम् ॥ १०५ ॥ संस्कृत टीकाकारका अंतमंगल ( शार्दूलविक्रीडित ) येनात्मा बहिरन्तरुत्तमभिदा त्रेधा विवृत्योदितो मोक्षोऽनन्तचतुष्टयामलवपुः सद्ध्यानतः कीर्तितः । जीयात्सोऽत्र जिनः समस्तविषयः श्रीपूज्यपादोऽमलो भव्यानन्दकरः समाधिशतकः श्रीमत्प्रभेन्दुः प्रभुः || १०६ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy