________________
શ્રી ભદ્રબાહુ સ્વામી : 3२
[ श्री सागर सिरिथूलभद्द सत्तम ७, अट्ठमगा महागिरी-सुहत्थी ८ अ । सुट्टिअ-सुप्पडिबद्ध, कोडिअकाकंदिगा नवमा ९॥ ४ ॥
७-तत्पट्टे श्रीथूलभद्रस्वामी। ८-तत्पट्टे श्रीआर्यमहागिरि-श्रीआर्यसुहस्तिनौ ।
९-श्रीआर्यसुहस्तिपट्टे श्रीसुस्थितसुप्रतिबद्धौ । ગાથાર્થ – સાતમાં શ્રી સ્મૃલભદ્ર, આઠમા શ્રી આર્યમહાગિરિ તથા શ્રી આર્યસુહસ્તિસૂરિ અને નવમા પટ્ટધર કટિક-કાકંદીવાળા શ્રી આર્યસુસ્થિતસૂરિ તથા સુપ્રતિબદ્ધ થયા.
व्याख्या-७-सिरिथूलभद्दत्ति, श्रीसंभूतिविनय-भद्रबाहुस्वामिनोः सप्तमपट्टः श्रीस्थूलभद्रस्वामी कोशाप्रतिबोधजनितयशोधवलीकृताखिलजगत् सर्वजनप्रसिद्धः । चतुर्दशपूर्व विदा पश्चिमः। क्वचिच्चत्वार्यन्त्यानि पूर्वाणि सूत्रतोऽधीतवानित्यपि । स च त्रिंशत् ० ३० गृहे, चतुर्विशति २४ व्रते, पंचचत्वारिंशत् ४५ युगप्रधाने, सर्वायुर्नवनवति ९९ वर्षाणि परिपाल्य श्रीवोरात् पंचदशाधिकशतद्वय २१५ वर्षे स्वर्गभाक् । अत्र कविः
श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिघाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ १ ॥
श्रीवीरनिर्वाणात् चतुर्दशाधिकवर्षशतद्वये २१४ आषाढाऽऽचार्यात् अव्यक्तनामा तृतीयो निह्नवः ॥ छ ॥
(-अट्ठमगत्ति, श्रीस्थूलभद्रपट्टेऽष्टमौ पट्टधरौ श्रीआर्यमहागिरिः श्रीसुहस्ती चेत्युभावपि गुरुभ्रातरौ । तत्र श्रीआर्यमहागिरिजिनकल्पिकतुलनामारूढो, जिनकल्पिककल्पः । त्रिंशत् ३० गृहे, चत्वारिंशत् ४० व्रते, त्रिंशत् ३० युग० सर्वायुः शत १०० वर्ष परिपाल्य स्वर्गभाक् ॥
द्वितीयेनाऽऽर्यसुहस्तिना पूर्वभवे द्रमकीभूतोऽपि संप्रतिजीवः प्रव्राज्य त्रिखंडाधिपतित्वं प्रापितः । येन संप्रतिना त्रिखंडमितापि मही जिनप्रासादमंडिता विहिता, साधुवेषधारिनिजवंठपुरुषप्रेषणेनाऽनार्यदेशेऽपि साधुविहार: कारितः। स च आर्यसुहस्ती त्रिंशत् ३० गृहे, चतुर्विशति २४ व्रते, षट्चत्वारिंशत् ४६ युग० सर्वायुः शतमेकं १०० परिपाल्य श्रीवीरात् एक नवत्यधिकशतद्वये २९१ स्वर्गभाक् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org