________________
५४ाक्षी ]
: ર૧૫ : શ્રી આણદવિમળસૂરિ च तदोय प्रधानशिरोमणि-शेष (ख) श्रीअवलफजलाख्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभूत्यनेकमुनिनिकरपरिकरिता: श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं स्वागतादि पृष्ट्वा स्वकीयास्थानमण्डपे समुपवेश्य च परमेश्वरस्वरूपं, धर्मस्वरूपं च कीदृशं च कथं च परमेश्वरः प्राप्यत इत्यादि धर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराऽष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतस्वरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगराद्रङ्गतोऽजमेरनगरं यावदध्वनि प्रतिक्रोशं कूपिकोपेतमनारान्विधाय स्वकीयाखेटककलाकुशलताप्रकटनकते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सञ्जातः ।
ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोक्तम्-यत् पुत्रकलत्रधनस्वजनदेहादिषु निरीहेभ्यः श्रीमदभ्यो हिरण्यादिदानं न युक्तिमत् । अतो यस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावद्धर्मगोष्ठी विधाय श्रीमत्साहिना समनुज्ञाता: श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः। ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सञ्जाता।
तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणान्तरं सुरीपुरे श्रीनेमिजिनयात्राकृते समागतैः श्रीगुरुभिः पुरातनयोः श्रीऋषभदेव-नेमिनाथसम्बन्धिन्योर्महत्योः प्रतिमयोस्तदानीमेव निर्मितश्रीनेमिजिनपादुकायाश्च प्रतिष्ठा कृता । तदनु आगराख्यनगरे सा० मानसिंह कल्याणमल्लकारितश्रीचिन्तामणिपार्श्वनाथादिबिम्बानां प्रतिष्ठा शतशः सुवर्णटङ्कव्ययादिना महामहेन निर्मिता । तत्तीर्थं च प्रथितप्रभावं सञ्जातमस्ति ।।
ततः श्रीगुरवः पुनरपि फतेपुरनगरे समागत्य श्रीसाहिना साकं मिलिताः । तदवसरे च प्रहरं यावद्धर्मप्रवृतिकरणानन्तरं श्रीसाहिरवदत् यत् श्रीमन्तो मया दर्शनोत्कण्ठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते । तेनाऽस्मत्सकाशात् श्रीमद्भिः सचित्तं याचनीयं येन वयं कृतार्था भवामः । तत् सम्यग विचार्य श्रीगुरुभिस्तदीयाऽखिलदेशेषु पर्युषणापर्वसत्काऽष्टाह्निकायाममारिप्रवर्तन बन्दिननमोचनं चाऽयाचि, ततो निर्लोभताशान्तताद्यतिशयितिगुणगणातिचमत्कृतचेतसा श्रीसाहिना अस्मदीयान्यपि चत्वारि दिनानि समधिकानि भवन्त्विति कथयित्वा स्ववशीकतदेशेषु श्रावणबहुलदशमीतः प्रारभ्य भाद्रपदशुक्लषष्ठी यावदमारिप्रवर्तनाय द्वादशदिनामारिसत्कानि काञ्चनरचनाञ्चितानि स्वनामाङ्कितानि षटू फुरमानानि त्वरितमेव श्रीगुरूणां समर्पितानि । तेषां व्यक्ति:-प्रथमं गूर्जरदेशीयं, द्वितीयं मालवदेशसत्कं, तृतीयं अजमेरदेशीय, चतुर्थ दिल्लीफतेपुरदेशसम्बन्धि, पञ्चमं लाहुरमुलतानमण्डलसत्कम् , श्रीगुरूणां पार्श्वे रक्षणाय षष्ठं देशपञ्चक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org