SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ કડવામતી, બીજામતી ને પાયચંદ ગોત્પત્તિ : ૨૦૪ - [ શ્રી તપાગચ્છ ગાથાર્થ – શ્રી હેમવિમળ રિની પાટે સુવિહિત મુનિઓમાં ચૂડામણિ (મુગટ) સમાન અને કુમત-મિથ્યાત્વરૂપ અંધકારનો નાશ કરવામાં સૂર્ય સમાન પ્રકાશવાળા છપ્પનમા પટ્ટધર શ્રી આણંદવિમળસૂરિ થયા. ૧૮ व्याख्या-५६ सुविहिअत्ति-श्रीहेमविमलसूरिपट्टे षट्पंचाशत्तमपट्टधरः सुविहितमुनिचूडामणि-कुमततमामथनसूर्यसममहिमा श्रीआणंदविमलसूरिः । तस्य च वि० सप्तचत्वारिंशदधिके पंचदशशत १५४७ वर्षे इलादुर्गे जन्म, द्विपंचाशदधिके १९५२ व्रतं, सप्तत्यधिके १५७० सूरिपदं ॥ । तथा यो भगवान् क्रियाशिथिलबहुयतिजनपरिकरितोऽपि संवेगरंगभावितात्मा जिनप्रतिमाप्रतिषेध-साधुजनाभावप्रमुखोत्सूत्रप्ररूपणप्रबलजलप्लाव्यमानं जननिकरमवलोक्य करुणारसावलिप्तचेतो गुर्वाज्ञया कतिचित् संविग्नसाधुसहायो वि० व्यशीत्यधिकपंचदशशत १९८२ वर्षे शिथिलाचारपरिहाररूपक्रियोद्धरणयानपात्रेण तमुदधृतवान्, अनेकानि चेभ्यानामिभ्यपुत्राणां च शतानि कुटुंबधनादिमोहं संत्याज्य प्रव्राजितानि ॥ " यो वादे जयी स नगरादौ स्थास्यति नाऽन्य " इति सुराष्ट्राधिपतिनामांऽकितलेखमादाय सुराष्ट्रे साधुविहारनिमित्तं यदीयश्रावकः सुरत्राणदत्तपर्यस्तिकावाहन: पातसाहिप्रदत्त “ मलिकश्रीनगदल " विरुदः सा ० तूणसिंहाख्यः श्रीगुरूणां विज्ञप्ति कृत्वा संप्रतिभूपतिरिव पंन्यासजगर्षिप्रमुखसाधुविहारं कारितवान् । तथा जेसलमेर्वादिमरुभूमौ जलदौर्लभ्याददुष्करोऽयमिति धिया श्रीसोमप्रभमूरिभिर्यो विहारः प्रतिषिद्ध आसीत् सोऽपि व्यवहारः कुमतव्याप्तिभिया तत्रत्यजनानुकंपया च भूयो लाभहेतवे पुनरप्यनुज्ञातः । तत्रापि प्रथमं लघुवया अपि शीलेन श्रीस्थूलभद्रकल्पो वैराग्यनिधिनि:स्पृहावधिर्यावज्जीवं जघन्यतोऽपि षष्ठतपोऽभिग्रही पारणकेऽप्याऽऽचाम्लादितपोविधायी महोपाध्यायश्रीविद्यासागरगणिविहृतवान् । तेन च जेसलमेर्वादौ खरतरान्, मेवातदेशे च बीजामतीप्रभृतीन्, मौरव्यादौ ( मौख्यादौ ) लुङ्कादीन् प्रतिबोध्य सम्यक्त्वबीजमुप्तं सदनेकधावृद्धिमुपागतमद्याऽपि प्रतीतं ।। तथा पार्श्वचन्द्रव्युटग्राहिते वीरमग्रामे पावचन्द्रमेव वादे निरुत्तरीकृत्य भूयान् जनो जैनधर्मं प्रापितः । एवं मालवकेऽप्युजयिनीप्रभृतिषु । किं बहुना ? संविग्नत्वादिगुणैर्यत्कीर्तिपताका पुनरद्यापि सज्जनवचोवातेनेतम्तत उदधूयमाना प्रवचनप्रासादशिखरे समुल्लसति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy