________________
५४ाक्षी
: १८3
શ્રી સતિલકસૂરિ तच्छिष्यास्तु-१ श्रीमुनिसुन्दरसूरिः, २ कृष्णसरस्वतीबिरुदधारक-श्रीजयसुन्दरसूरिः, ३ महाविद्याविडंबनटिप्पनकारक-श्रीभुवनसुन्दरसूरिः, ४ कण्ठगतैकादशांगीसूत्रधारकदीपावलिकाकल्पादिकारक-श्रीजिनसुन्दरश्चेति चत्वारः । तैः परिकरितो राणपुरे श्रीधरणचतुर्मुखविहारे ऋषभाद्यनेकशतबिंबप्रतिष्ठाकृत् ॥ अनेकभव्यप्रतिबोधनादिना प्रवचनमुभाव्य वि० नवनवत्यधिकचतुर्दशशत १४९९ वर्षे स्वर्गभाक् ।
५१ मुनिसुन्दरेगवण्णोत्ति-श्रीसोमसुन्दरसूरिपट्टे एकपंचाशत्तमः श्रीमुनिसुन्दरसूरिः । येनानेकप्रासादपद्मचक्रषट्कारकक्रियागुप्तकाऽर्धभ्रमसर्वतोभद्रमुरजसिंहासनाऽशोकभेरीसमवसरणसरोवराऽष्टमहाप्रातिहार्यादिनव्यत्रिशतीबंधतर्कप्रयोगाद्यनेकचित्राक्षरद्वयक्षरपंचवर्गपरिहाराद्यनेकस्तवमय"त्रिदशतरंगिणी" नामधेयाष्टोत्तरशतहस्तमितो लेखः श्रीगुरूणां प्रेषितः ॥ चातुर्वेद्यवैशारद्यनिधिरुपदेशरत्नाकरप्रमुखग्रन्थकारकः ॥ स्तंभतीर्थे दफरखानेन “वादिगोकुलसंड" इति भणितः दक्षिणस्यां " कालीसरस्वती "ति प्राप्तबिरुदः, अष्टवर्षगणनायकत्वानंतरं वर्षत्रिक " युगप्रधानपदव्युदयी " ति जनैरुक्तः, अष्टोत्तरशत १०८ वर्तुलिकानादौपलक्षकः, बाल्येऽपि सहस्राभिधानधारकः, संतिकरमिति समहिमस्तवनकरणेन योगिनीकृतमार्युपद्रवनिवारकः चतुर्विंशतिवार २४ विधिना सूरिमंत्राराधकः ॥ तेष्वपि चतुर्दशवारं यदुपदेशत: स्वस्वदेशेषु चंपकराजदेपाधारादिराजभिरमारिः प्रवर्तिता । सीरोहीदिशि सहस्रमलराजेनाऽप्यमारिप्रवर्तने कृते येन तिड्डकोपद्रवो निवारितः ।
श्रीमुनिसुन्दरसूरेवि० षट्त्रिंशदधिके चतुर्दशशत १४३६ वर्षे जन्म, त्रिचत्वारिंशदधिके १४४३ व्रतं, षट्षष्ठ्यधिके १४६६ वाचकपदं, अष्टसप्तत्यधिके १४७८ द्वात्रिंशत्सहस्र ३२००० टंकव्ययेन वृद्धनागरीयसं० देवराजेन सूरिपदं कारितं, त्र्युत्तरपंचदशशत १५०३ वर्षे का० शु० प्रतिपत् १ दिने स्वर्गभाक ॥
५२ बावण्णोत्ति-श्रीमुनिसुन्दरसूरिपट्टे द्विपंचाशत्तमः श्रीरत्नशेखरसूरिः । तस्य वि० सप्तपंचाशदधिके चतुर्दशशत १४५७ वर्षे क्वचिहा द्विपंचाशदधिके १४५२ जन्म, त्रिषष्ठ्यधिके १४६३ व्रतं, त्र्यशीत्यधिके १४ ८३ पण्डितपदं, त्रिनवत्यधिके १४९३ वाचकपदं, व्युत्तरे पंचदशशते १५०२ वर्षे सूरिपदं, सप्तदशाधिके १५१७ पोषवदिषष्ठीदिने ६ स्वर्गः । स्तंभतीर्थे बांबीनाम्ना भट्टेन " बालसरस्वती "ति नाम दत्तं ॥
तस्कृता ग्रंथाः-१ श्राद्धप्रतिक्रमणवृत्ति, २ श्राद्धविधिसूत्रवृत्तिः, ३ आचारप्रदीपश्चेति। तदानीं च लुकाख्याल्लेखकात् वि० अष्टाधिकपंचदशशत १५०८ वर्षे जिनप्रतिमोत्थानपरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org