SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ - શ્રી દેવસૂરિ ને સર્વદેવસૂરિ : ૧૧૮ : [ श्री ता हरिभद्रसरिरचिताः, श्रीमदनेकांतजयपताकाद्याः । ग्रंथनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ ३ ॥ सत्पञ्जिकादिपद्या-विरचना या भगवता कृता येन । मंदधियामपि सुगमास्ते सर्वे विश्वहितबुध्या ॥ ४ ॥ अष्टहयेश (११७८) मिताब्दे विक्रमकालादिवं गतो भगवान् । श्रीमुनिचंद्रमुनींद्रो, दक्षतु भद्राणि संघाय ॥ ५ ॥ अनेन चानंदसूरिप्रभृतयोऽनेके निजबांधवाः प्रव्राज्य सूरीकृताः । अयं च श्रीमुनिचंद्रसूरिः श्रीनेमिचंद्रसूरिगुरुभ्रातृश्रीविनयचंद्रोपाध्यायस्य शिष्यः श्रीनेमिचंद्रसूरिभिरेव गणनायकतया स्थापितः । यदुक्तं गुरुबंधुविनयचंद्राध्यापकशिष्यं स नेमिचंद्रगुरुः । यं गणनाथमकार्षीत्, स जयति मुनिचंद्रसूरिरिति ॥ १ ॥ अत्र च एकोनषष्ठ्यधिकैकादशशत ११५९ वर्षे पौर्णिमीयकमतोत्पत्तिः, तत्प्रतिबोधाय च मुनिचंद्रसूरिभिः पाक्षिकसप्ततिका कृतेति ।। ___ तथा श्रीमुनिचंद्रसूरिशिष्याः श्रीअजितदेवसूरि-वादिश्रीदेवसूरिप्रभृतयः । तत्र वादिनीदेवसूरिभिः श्रीमदणहिल्लपुरपत्तने जयसिंहदेवराजस्याऽनेकविद्वज्जनकलितायां सभायां चतुरशीतिवादलब्धजययशसं दिगंबरचक्रवर्तिनं वादलिप्सुं कुमुदचंद्राचार्य वादे निर्जित्य श्रीपत्तने दिगंबरप्रवेशो निवारितोऽद्यापि प्रतीतः । तथा वि० चतुरधिकद्वादशशत १२० ४ वर्षे फलवर्धिग्रामे चैत्यबिंबयोः प्रतिष्ठा कृता । तत्तीर्थं तु संप्रत्यपि प्रसिद्ध । तथा आरासणे च नेमिनाथप्रतिष्ठा कृता । चतुरशीतिसहस्र ८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रंथः कृतः । येम्यश्च यन्नाम्नैव ख्यातिमत् चतुर्विंशतिसूरिशाखं बभूव । एषां च वि० चतुस्त्रिंशदधिके एकादशशत ११३४ वर्षे जन्म, द्विपंचाशदधिके ११९२ दीक्षा, चतुःसप्तत्यधिके ११७४ सूरिपदं, षड्विंशत्यधिकद्वादशशत १२२६ वर्षे श्रावणवदिसप्तभ्यां ७ गुरौ स्वर्गः । ___ तत्समये श्रीदेवचंद्रसृरिशिष्यस्त्रिकोटिग्रंथकर्ता कलिकालसर्वज्ञख्यातिमान् श्रीहेमचंद्रसरिः, तस्य वि० पंचचत्वारिंशदधिके एकादशशत ११४५ वर्षे कार्तिकशुदिपूर्णिमायां १५ जन्म, पंचाशदधिके ११५० व्रतं, षषष्ठ्यधिके ११६६ सूरिपदं, एकोनत्रिंशदधिकद्वादशशत १२२९ वर्षे स्वर्गः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy