SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ (४८३) लोकप्रकाश । [सर्ग २० ससप्तषष्टित्रिशतविभक्तस्य त्रिभिः शतैः । सप्तोत्तरैः प्रत्ययश्च त्रैराशिकात्तदुच्यते ॥ ५२३ ॥ __ नक्षत्रार्धमण्डलानां संपूर्णयुगवर्तिनाम् । पंचत्रिंशत्समधिकर्यद्यष्टादशाभिः शतैः ॥ ५२४ ।। अष्टादशशती त्रिंशाहोरात्राणामवाप्यते । द्वाभ्यामर्धमण्डलाभ्यां किमाप्यते तदा वद ॥ ५२५ ॥ __ अत्रान्त्यराशिना राशौ मध्यमे गुणिते सति । त्रिसहस्री षट्शती च जाता षष्टयधिका किल ॥ ५२६ ॥ पंचत्रिंशत्समधिकेनाष्टादशशतात्मना । आयेन राशिना भागे रात्रिंदिवमवाप्यते ॥ ५२७ ॥ अष्टादशशती शेषा पंचविंशतियुक् स्थिता । मुहर्त्तानयनायैषा त्रिंशता गुणिताभवत् ॥ ५२८ ॥ चतुःपंचाशत्सहस्राः सार्दा सप्तशतीति च । एषां भागेऽष्टादशभिः पंचत्रिंशद्युतैः शतैः ॥ ५२९ ॥ लब्धा मुहर्ता एकोनत्रिंशत् ततोऽपवर्त्तनम् । छेद्यछेदकयोः राश्योः पंचभिः तौ ततः स्थितौ ॥ ५३० ॥ सप्ताढ्या त्रिशती भाज्यो भाजकः सप्तषष्टियुक् । त्रिशती येऽत्र लब्धाश्चैकोनत्रिंशत् मुहूर्त्तकाः ॥ ५३१ ॥ त्रिंशन्मुहूर्तरूपेऽहोरात्रे पूर्वागतेऽन्विताः।। ते मुहूर्ताः स्युरेकोनषष्टी राशिरसौ पुनः ॥ ५३२ ॥ દરેક નક્ષત્ર પિતપોતાનું આખું મંડળ ૫૯૩૭ મુહૂર્તોમાં પૂરે છે, જેની નાચે પ્રમાણે ત્રરાશિક હિસાબથી ખાત્રી કરવી. પ૨૨-પર૩. સંપૂર્ણ યુગવત ૧૮૩૫ નક્ષત્રાધમંડળેથી જે ૧૮૩૦ અહેરાત્ર થાય તે ૨ અધમંડળેથી કેટલા અહોરાત્ર થાય ? માટે ૧૮૩૫ : ૧૮૩૦ : : ૨ આમ ત્રિરાશિ લખવી એટલે કે અહોરાત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy