________________
576
તપાગચ્છાધિષ્ઠાયક
अथ दशदिक्पाल स्तोत्रम् : (अनुष्टुपम्) गजेन्द्रवाहः हेमाभः पूर्वेशः शक्र वज्रकम् । भक्तानामभयं कर्ता देवाधीशं नमोऽस्तु ते ॥१॥ छागवाहो धनुर्हस्तो कपिलांगोऽगिन दिक्पतिः। पापानां दहनं कर्ता अग्निदेवं नमोऽस्तु ते ॥२॥ महिषवाह: कृष्णांगो दक्षिणेशः सदण्डदः । यमपाशभयं हर्ता तुभ्यं बलि नमोऽस्तु ते ॥३॥ शबारूढो धूम्रवर्णो गदाहस्तो सनिति । स्वदिशादमयं कर्ता नैर्ऋतीशं नमोऽस्तु ते ॥४॥ मत्स्यारूढो मेघवर्णो नक्रस्थः पाशधारकः । प्रतीची पतये तुभ्यं वरुणाय नमोऽस्तु ते ॥५॥ वायव्येशो मृगारूढो धूसरांगो ध्वजधारकः । भूतानां प्राणदाता च वायुदेव नमोऽस्तु ते ॥६॥ नरवाहो रत्न हस्तो उत्तरेशः कुबेरकः । सर्व कार्य प्रयोगार्थ कोषाधीश नमोऽस्तु ते ॥७॥ ईशानो वृषभारूढः श्वेत शूलौ स्वदिक्पतिः। खड्गहस्तं सदा ध्यायेत् ऐशान्यं च नोमऽस्तुते ॥८॥ हंसारूढो पद्मपाणि चोर्ध्व लोकैक ब्रह्माणः । चतुर्मुख श्वेतवर्ण जगत्कर्ता नमोऽस्तु ते ॥९॥ पद्मारूढो धृतधरा धन्याधोलोकेशनागः । ऋद्धिदायी वृद्धिकारी पद्मनागं नमोऽस्तु ते ॥१०॥ इन्द्राद्या दशदिक्पालाः, स्व-स्व वाहन सायुधाः । सर्व विध् विनाशाय भूयो भूयो नमाम्यहम् ॥११॥
श्री शत्रुजय तीर्थपति आदिनाथ जिनपूजनम् : (शार्दूल)
श्री शत्रुजय तीर्थराजमनीशं, श्री नाभिराजात्मजम् । सर्वै, सूरि मुनीन्द्र संघ सहितैः भक्त्या नमामो नतम् ॥ ज्ञानं यस्य त्रिकाल वाद्य रहितं लोकोत्तरोद्योतकम् ।
वन्दे तं करुणाकरं जिनवरं सेवे मुदाऽऽदीश्वरम् ॥१॥ विविध पुष्प सुगन्ध जलाक्षतैः रचितं भाव धनैः कुसुमाञ्जलिम् ।
प्रभो स्वीकुरु पावन भक्तदम्, शत्रुञ्जयाऽऽख्यमादिनाथं यजेऽहम् ॥ पूजनमंत्र :- ॐ ह्री श्रौं शत्रुञ्जय महातीर्थाधिपतये श्रीमते आदिनाथ जिनेन्द्राय पुष्पांजलिं अर्चयामीति स्वाहा । (पुष्पांजली वडे बधावे)।
पंचामृत अभिषेक पंचामृतैः पञ्चविधान वस्तुभिः पयोदधि गोघृत शर्कराम्बुभिः ।
पवित्र भावै भवाब्धि तारणाय शत्रुञ्जयाऽऽख्यमादिनाथं यजेऽहम् ॥ ॐ नमोऽर्हते परमेश्वराय परमपुरुषाय परमेष्ठिने जन्मजरामृत्यु निवारणाय देवाधिदेवाय शत्रुजय महातीर्थाधिपतये श्रीमते आदिनाथ जिनेन्द्राय पञ्जामृतं यजामहे स्वाहा ।( चार कलशो द्वारा पंचामृतनो अभिषेक प्रभुजीने करवो)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org