SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ८७८ अध्ययन-३४:५२3 भगवानाह-हन्तेत्यादि, हन्त गौतम ! कृष्णलेश्येत्यादि, तदेव ननु यदि न परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभः स हि तेजोलेश्यादि परिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति, कथं चैतत् वाक्यं घटते ? भावपरावत्तीए पुण सुरनेरइयाणंपि छल्लेसा इति (भावपरावृत्तेः पुनः सुरनैरयिकाणामपि षड् लेश्याः) लेश्यान्तरद्रव्यसम्पर्कतस्तद्रूपतया परिणामासंभवेन भावपरावृत्तेरेवायोगात्, अत एव तद्विषये प्रश्ननिर्वचनसूत्रे आहसे केणटेणं भंते ! इत्यादि, तत्र प्रश्नसूत्रं सुगमं निर्वचनसूत्रं-आकार:-तच्छायामात्रं आकारस्य भावः-सत्ता आकारभावः स एव मात्रा आकारभावमात्रा तयाऽऽकारभावत्रया मात्राशब्द आकारभावातिरिक्तपरिणामान्तरप्रतिपत्तिव्युदासार्थः, 'से' इति सा कृष्णलेश्या नीललेश्यारूपतया स्यात् यदि वा प्रतिभाग:-प्रतिबिम्बमादर्शादाविव विशिष्टः प्रतिबिम्ब्यवस्तुगत आकार: प्रतिभाग एव प्रतिभागमात्रा तया, अत्रापि मात्रा शब्दः प्रतिबिम्बातिरिक्तपरिणामन्तव्युदासार्थः स्यात् । कृष्णलेश्या नीललेश्यारूपतया, परमार्थतः पुनः कृष्णलेश्यैव नो खलु नीललेश्या सा स्वस्वरूपापरित्यागात्, न खल्वादर्शादयो जपाकुसुमादिसन्निधानतस्तत्प्रतिबिम्बमात्रामादधाना नादर्शादय इति परिभावनीयमेतत्, केवलं सा कृष्णलेश्या तत्र-स्वस्वरूपे गता-अवस्थिता सती उत्ष्वष्कते तदाकारभावमात्रधारणतस्तत्प्रतिबिम्बमात्रधारणतो वोत्सर्पतीत्यर्थः, कृष्णलेश्यातो हि नीललेश्या विशुद्धा ततस्तदाकारभावं तत्प्रतिबिम्बमात्र वा दधाना सती मनाक विशद्धा भवतीत्युत्सर्पतीति व्यपदिश्यते, उपसंहारवाक्यमाह-'से एएणद्वेण' मित्यादि, सुगमं । एवं नीललेश्यायाः कापोतलेश्यामधिकृत्य कापोतलेश्यायास्तेजोलेश्यामधिकृत्य तेजोलेश्यायाः पद्मलेश्यामधिकृत्य पद्मलेश्यायाः शक्ललेश्यामधिकृत्य सूत्राणि भावनीयानि सम्प्रति पद्मलेश्यामधिकृत्य शुक्ललेश्याविषयं सूत्रमाह 'से नृणं भंते ! सुक्कलेसा पम्हलेसं पप्प' इत्यादि, एतच्च प्राग्वद् भावनीयं, नवरं शुक्ललेश्यापेक्षया पद्मलेश्या हीनपरिणामा ततः शुक्ललेश्या पद्मलेश्याया आकारभावं तत्प्रतिबिम्बमात्रं वा भजन्ती मनागविशुद्ध भवति ततोऽवष्वष्कते इति व्यपदिश्यते, एवं तेजःकापोतनीलकृष्णलेश्याविषयाण्यपि सूत्राणि भावनीयानि, तत: पद्मलेश्यामधिकृत्य तेज:कापोतनीलकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्यामधिकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषु न दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि, तथा मूलटीकाकारण व्याख्यानात्, तदेवं यद्यपि देवनैरयिकाणामवस्थितानि लेश्याद्रव्याणि तथापि तत्तदुपादीयमानलेश्यान्तरद्रव्यसम्पर्कत: तान्यपि तदाकारभावमात्रां भजन्त इति भावपरावृत्तियोगतः षडपि लेश्या घटन्त, ततः सप्तनरकपृथिव्यामपि सम्यक्त्वलाभ इति न कश्चिद्दोषः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy