________________
अर्हम् ।
प्राचीन जैनलेखसंग्रहः ।
श्रीशत्रुञ्जयपर्वतस्थजिनमन्दिरगत - शिलापट्टप्रतिमापादुकादिप्रशस्तिलेखाः ।
RSRSRD
( १ )
॥ ॐ ॥ स्वस्ति श्रीगुर्जर धरित्र्यां पातसाह श्रीमहिमूदपट्टप्रभाकरपातशाहश्रीमदा फरसाहपट्टोद्योतकारकपातसाह श्रीश्री श्रीश्रीश्री बाह दर साहविजयराज्ये । संवत् १५८७ वर्षे राज्यव्यापारधुरंधरपानश्रीमझादषानव्यापारे श्रीशत्रुञ्जयगिरौ श्रीचि - कूटवास्तव्य दो० करमाकृत - सप्तमोद्धारसक्ता प्रशस्ति लिख्यते ॥
स्वस्ति श्रीसौख्यदो जीयाद युगादिजिननायकः । केवलज्ञानविमलो विमलाचलमण्डनः ॥ १ ॥ श्रीमदपाटे प्रकटप्रभावे भावेन भव्ये भुवनप्रसिद्धे । श्री चित्रकूटो मुकुटोपमानो विराजमानोऽस्ति समस्तलक्ष्म्या | २ ||
Jain Education International
93
For Private & Personal Use Only
www.jainelibrary.org