________________
३००
प्राचीनजैनलेखसंग्रहे राधनपुर-प्रशस्तिः ।
(४६०)
उँनमोऽहते ॥ स्वस्ति श्रियां दानविधौ सुदक्षं
सत्साधुसिद्धैः परिबद्धकक्षम् । सुप्तां हठात् कुण्डलिनी विबोध्य
ध्यातं मुदेऽस्मा(*) कमिव सदास्तु ॥ १ ॥ श्रीशालिनीप्रवरधविराजमानेऽ
मानेऽत्र राधनपुरे जिनशांतिनाथः । श्रीशांतिकीर्तिसुमतिप्रतिभाप्रसादं (*)
कुर्यादखिन्नविभवस्य जनस्य नित्यं ॥ २ ॥ जयति सदागमसिंधुगर्जन्नु चैनयालिकल्लोल्लैः । परिपूर्णक्रियारत्नस्तपागणो भूतले ख्यातः(*) ॥३॥ तत्रोद्भूतसमस्तवस्तुनिकरव्यापारसत्तां मुदा
द्वैताद्वैतविनोदगोचरगता यः प्रोचिवान् वादिनां । वादे श्रीमदकव्वरोत्तममही(*) पालस्य सत्संसदि
स श्रीमानभिजातहीरविजयसूरीशसेन्याग्रणीः ॥४॥ तस्य पटाम्बरे दीप्तिं तन्वंतः सूर्यसनिभाः। श्रीमद्विजयसेना(*)ख्याः सूरयो ज्ञप्तिशालिनः ॥ ५ ॥ यैर्विहितः खलु वादः संसदि भूपस्य सभ्यदीपायां । दर्शितनिजप्रतापा दर्शनषडङ्केऽस्खलद्गतयः(*) ॥ ६ ॥
3७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org