SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २९८ प्राचीन जैनलेखसंग्रहे साहि श्रीवर्द्धमानस्य नन्दनाश्चन्दनोपमाः । वीरादो विजपालाख्यो भामो हि जगस्तथा ॥ १४ ॥ साहि श्री चापसिंहस्य पुत्रः श्रीअमियाभिधः । तदङ्गजौ शुद्धमती रामभीमावुभावपि ॥ १५ ॥ मंत्रीपद्मसिंहस्य पुत्रा रत्नोपमास्त्रयः । श्रीश्रीपाल - कुंरपाल - रणमल्ला वरा इमे ॥ १६ ॥ श्री श्रीपालाङ्गजो जीयान्नारायणो मनोहरः । तदङ्गजः कामरूपः कृष्णदासो महोदयः ॥ १७ ॥ साहि श्रीकुंरपालस्य वर्तेतेऽन्वयदपिकौ । सुसीलस्थावराख्यश्च वाघजिद्भाग्यसुन्दरः ॥ १८ ॥ [ एवं ] सपरिकरयुताभ्याममात्यशिरोरत्नाभ्यां साहिश्रीवर्द्धमान- पद्मसिंहाभ्यां हाल्लारदेशे नव्यनगरे जाम श्रीशत्रुशल्यात्मज श्री जसवंतजीविजयराज्ये श्रीअंचलगच्छेशश्रीकल्याणसागर सूरीश्वराणामुपदेशेनात्र श्रीशांतिनाथप्रासादादिपुण्यकृत्यं कृतं । श्रीशांतिनाथप्रभृत्येकाधिकपंचशत प्रतिमाप्रतिष्ठायुगं करापितम् । चाद्या संवत् १६७६ वैशाखशुक्ल ३ बुधवासरे द्वितीया संवत् १६७८ वैशाखशुक्ल ५ शुक्रवासरे । एवं मंत्रीश्वर श्रीवर्द्धमानपद्मसिंहाभ्यां सप्तलक्षरुप्यमुद्रिका व्ययीकृता नवक्षेत्रेषु । संवत् १६९७ मार्गशीर्षशुक्ल २ गुरुवासरे उपाध्याय श्रीविजय सागरगणेः शिष्यसौभाग्यसागरैरलेखीयं प्रशस्तिर्मनमोहनसागरप्रसादात् ॥ Jain Education International 390 For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy