SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २७२ प्राचीन नलेखसंग्रह श्रीपरमगुरूणामादेशप्रसादं महाराजश्रीभारमल्लजिदाग्रहानुगामिनमासाद्य श्रीभक्तामरादिस्तुतिभक्तिप्रसन्नीभूतश्रीऋषभदेवोपासकसुराविशेषाज्ञया प्रथमविहारं श्रीकच्छदेशेऽत्रचक्रे तत्र सं० १६५६ वर्षे श्रीभुजनगरे आद्यं चतुर्मासकं द्वितीयं च रायपुरबन्दिरे तदा च श्रीकच्छमच्छुकाण्ठापश्चिमपञ्चालबागडजसलाम ण्डलायनेकदेशाधीशैर्महाराज श्रीखेङ्गारजी पट्टालङ्करणैव्यांकरणकाव्यादिपरिज्ञानतथाविधेश्वर्यस्थैर्यधैर्यादिगुणापहस्तितसरस्वतीमहानवस्थानविरोधत्याजकैर्यादववंशभास्करमहाराजश्रीभारमल्लजीराजाधिराजैःविज्ञप्ताः ] श्रीगुरवस्ततस्तदिच्छापूर्वकं संजग्मिवांसः । काव्यव्याकरणादिगोष्ठ्या स्पष्टाष्टावधानादिप्रचण्डपाण्डित्यगुणदर्शनेन च रञ्जितै राजेन्द्रः श्रीगुरूणां स्वदेशे जी. वामारि प्रसादश्चक्रे। तद्वयक्तिर्यथा सर्वदा हि गवामारिः पयूषणाऋषिपञ्चमीयुत. नवदिनेषु तथा श्राद्धपक्षे सधैंकादशीरविवारदर्शेषु च तथा महाराजजन्मदिने राज्यदिने सर्वजीवामारिरिति सार्वदिकी सार्वत्रिकी चोदघोषणा जज्ञे । तदनु चैकदा महाराजैः पाल्लविधीयमाननभोवार्षिकविप्रविप्रतिपत्तौ तच्छिक्षाकरणपूर्वकं श्रीगुरुभिः कारिता श्री गुरूक्ता नभस्यवार्षिकव्यवस्थापिकासिद्धान्तार्थयुक्तिमाकर्ण्य तुष्टो राजा जयवादपत्राणि७ स्वमुद्राङ्कितानि श्रीगुरुभ्यः प्रसादादुपढो. कयति स्म प्रतिपक्षस्य च पराजितस्य तादृशराजनीतिमासूत्र्य श्रीराम इव सम्यग् न्यायधर्म सत्यापितवान् । किञ्च कियदेतदस्मगुरूणाम् । यतः। ३४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy