________________
१. सप्तैव भङ्गा इति कथं ? तत्समाधाने प्रश्नसंख्या सप्तैवेति तदुत्तरसंख्यापि सप्तैवेति सहेतु प्रपञ्चितम् । २. 'स्यादवाच्य अव' इति तृतीयभङ्गस्य कुत्राप्यनन्तर्भावोऽतः स्वतन्त्रभङ्गत्वेन व्यवस्थापनम् । ३. सप्तभङ्गीस्थितावाच्यत्वस्यागमोक्तानभिलाप्यत्वतो या या विषमता सा सर्वाप्यत्र प्रदर्शिता । ४. सम्मतिग्रन्थोक्तं व्यञ्जनपर्याये भङ्गद्वैविध्यमेव कथम् ? तद्विवेचितं, तद्विवेचने च महोपाध्यायश्रीमद्यशोविजयवाचकोक्तं घटादिपदवाच्यत्वरूपं तत्स्वरूपं स्वीकृत्य तस्यार्थपर्यायस्य च भेदः स्फुटीकृतः ।
जिनशासनवाङ्मये ग्रन्थानां नामकरणे सन्ति बढ्यः रीतयः । तास्वेका रीतिरेषा श्लोकसंख्या निर्धार्य नामकरणम् । यथाऽष्टकेऽष्ट श्लोकाः । द्वात्रिंशिकायां द्वात्रिंशत् श्लोकाः । तथैव विंशिकायां विंशतिः श्लोकाः । सूरिपुरन्दरश्रीहरिभद्रसूरीश्वराणां विंशतिविंशिका अस्यां विधायां सुचिरां ख्याति प्राप्ता वर्तते । अस्यामेव विधायामेको वरो ग्रन्थः प्रविशति सप्तभङ्गीविंशिका ।
बालधिषणानामतिगम्भीरायामस्यां सप्तभक्यामवतारो भवत्विति कृत्वा तेषामवगाहयोग्यतासमुल्लासार्थं ग्रन्थममुं समाकलयत् महाभागः सूरिशेखरः । आशासे च सप्तभङ्गीपारावारमन्थनस्पृहयालव इदं ग्रन्थमधीत्यात्मसात्कृत्य च परिकर्मितमतयः सन्तो निजवाञ्छासंसिद्धिसंपन्ना निःशङ्कं सुदुर्गम्याईद्वचनमहार्णवे प्राप्ततरीका इव विहरिष्यन्तीति । श्री विजयप्रेमसूरिलब्धप्रसादैः प्रगुरुवायचक्रचक्रवर्तिश्रीविजयभुवनभानुसूरिभिर्निर्मिताया न्यायभूमिकाया अध्ययनेन तदध्येतॄणां सर्वेषामस्खलिता न्यायविषये यथा गतिस्तथैवास्य ग्रन्थस्याध्यनेन सर्वेषां सप्तभङ्गी-विषयेऽस्खलिता गतिर्भविष्यतीति मन्ये ।
अन्ते वर्णवादावेष्टिताखिलब्रह्माण्डस्थितविद्वजनमण्डलैर्वाचकवरैः सन्हब्धनयरहस्यप्रकरणोक्तं समाप्तिपद्यं गीयते मया -
'रागद्वेषविरहतस्ततोऽस्तु कल्याणसम्प्राप्तिः । एतत्सप्तभङ्गीविंशिकाप्रकरणस्य स्वाध्यायबलेन सर्वेषामस्तु रागद्वेषहानिः कल्याणसम्प्राप्तिश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org