________________
सप्तभङ्गी च स्याद्वाददर्शनस्यात्मा, यतः सप्तभङ्गीप्रभायां कथितम्
सप्तभङ्गीवादस्यैव सर्वमतोपजीव्यत्वम् । तदुक्तं न्यायखण्डखाद्ये महोपाध्याययशोविजयैः - स्याद्वाद अव तव सर्वमतोपजीव्यो नान्योन्यशत्रुषु नयेषु नयान्तरस्य । निष्ठाबलं कृतधिया वचनापि न स्वव्याघातकं छलमुदीरयितुं च युक्तम् ॥ ३९॥
स्यात्पदस्यानिर्धारणार्थत्वाद् विरुद्धोभयगोचरज्ञानस्य संशयेनाप्रमाणत्वाच्च सप्तभङ्गी नयो न प्रमाणमिति वदतः शिरोमणेरज्ञानमुद्घाटितं महोपाध्यायप्रवरैस्तत्रैव-न ह्येकत्र नानाविरुद्धधर्मप्रतिपादकः स्याद्वादः, किन्त्वपेक्षाभेदेन तदविरोधद्योतकस्यात्पदसमभिव्याहृतवाक्यविशेषः स, इति द्योतिते च तदविरोधे संशयावकाशस्यैवाभावात् कथं स्वहृदयगतमनवधारणमस्मास्वारोप्यते शिरोमणिना इत्यादिना सप्तभङ्गीवाक्यस्य सप्तधर्मप्रकारकबोधजनकत्वे व्यवस्थिते तदुपजीविनोऽनुमानस्यापि तथात्वमित्यिमुमर्थमुपपादितवन्तः श्रीमन्त उपाध्यायाः - द्रव्याश्रयाः विधिनिषेधकृताश्च भङ्गा, कृत्स्नैकदेशविधया प्रभवन्ति सप्त। आत्मापिसप्तविधइत्यनुमानमुद्रात्वच्छासनेऽस्ति विशदव्यवहारहेतोः ।।६९।। ___अनेकान्तवादश्चायं क्वचित् कचिद्विषये परैरपि स्वीक्रियते । तदुक्तं महावीरस्तवे श्रीयशोविजयोपाध्यायैः - साङ्ख्यः प्रधानमुपयंस्त्रिगुणं विचित्रां बौद्धो धियं विशदयन्नथ गौतमीयः। वैशेषिकश्च भुवि चित्रमनेकमेकं वाञ्छन्मतं न तव निन्दति चेत् सलजः ।। ४४ ।। अव्याप्यवृत्तिगुणिभेदमुदीर्य नव्याभावं प्रकल्प्य च कथं न शिरोमणे त्वम् । स्याद्वादमाश्रयसि सर्वविरोधिजैत्रं ब्रूमः प्रसार्य निजपाणिमिति त्वदीयाः ॥ ४५ ॥ इति ।
अस्यां सप्तभङ्गीविंशिकायां यद्नाविन्यं मया दृष्टं तत्सङ्क्षेपस्त्वित्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org