________________
आगच्छन्तु आगच्छन्तु सर्वदेवताः प्रीयन्तां प्रीयन्तां ।
( आँ क्रौं ह्रीं श्री वर्धमानस्वामी-गौतमस्वामी-धर्मचक्रतीर्थाधिष्ठायिका: देवदेव्यः, श्रीपार्श्वपुरंतीर्थाधिष्ठायिका दिव्यपद्मावतीदेवी वर्धमानविद्याधिष्ठायीन्यः जयाविजयाजयंताऽपराजितादेव्यः सूरिमंत्राधिष्ठायिकाः भगवती सरस्वतीदेवी-त्रिभुवनुस्वामिनीदेवी-श्रीदेवीयक्षराजगणीपिटक-चतुषष्ठिसुरेन्द्रा-षोडशविद्यादेव्य-चतुर्विशतियक्षा: चतुर्विंशतियक्षिण्यः प्रियन्तां प्रियन्तां, मम अज्ञान निवारण-सारस्वतरोगापहारिणीविषापहारिणीबंधमोक्षणी श्रीलक्ष्मीसंपादनी परमंत्रविद्याछेदिनी दोषनाशिनी अशिवोपशमनी विद्यासिद्धिं कुर्वन्तु, मम बाहु-बलीविद्यासौभाग्या-विद्या-जयविजयादिस्वप्नविद्यासिद्धिं कुरुत कुरुत विजया-जयाजयंती-नंदा-भद्रादेव्यः सान्निध्यं कुर्वन्तु कुर्वन्तु जैनशासनप्रत्यनीकनिवारणं कुर्वन्तु कुर्वन्तु मम सर्वकार्यसिद्धिं कुर्वन्तु कुर्वन्तु स्वाहा.)
आँ क्रौं ह्रीं श्री चक्रेश्वरी ज्वालामालिनी पद्मावती महादेवी प्रीयन्तां प्रीयन्तां ।
आँक्रौं ह्रीं श्री माणिभद्रादियक्षकुमारदेवाः प्रीयन्ताम् प्रीयन्ताम् । सर्वजिनशासनरक्षकदेवाः प्रीयन्तां प्रीयन्तां । श्रीआदित्य-सोम-मङ्गलबुध-बृहस्पति शुक्र-शनि-राहु-केतवः सर्वे नवग्रहाः प्रीयन्तां प्रसीदंतु देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्ति भगवान् जिनेन्द्रः ।
यत्सुखं त्रिषु लोकेषु, व्याधिव्यसनवर्जितम् । अभयं क्षेममारोग्यं स्वस्तिरस्तु च मे सदा ॥१॥ यदर्थं क्रियते कर्म, सुप्रीतिनित्यमुत्तमम् । शान्तिकं पौष्टिकं चैव, सर्वकार्येषु सिद्धिदम् ॥२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org