________________
श्री चक्रेश्वरीदेवी स्तोत्र
जय श्रीमद्युगादीशपदपद्ममधुव्रते । सुरेन्द्रादिसुरश्रेणिश्लाघ्यसद्गुणविक्रमे जय श्रीदेवदेवेन्द्रप्रशस्यगुणविक्रमे । श्रीयुगादिजगन्नाथक्रमाम्भोजमधुव्रते चक्रवित्रासिताशेषरिपुचक्रपराक्रमे । चक्रेश्वरी सूरिवृन्दवन्द्यमानक्रमाम्बुजे
तीर्थप्रवृत्तिहेतुश्री सूरिमन्त्रस्य पञ्चमे । मन्त्रराजाभिधे स्थाने सुप्रतिष्ठे महाबले वरदेष्वरिपाशांकितापसव्यचतुर्भुजे । सत्त्वाह्लादिनी हे चक्रांकुशसव्यचतुः शये सुपर्णवाहने श्रीमद्गौतमोपास्तिलालसे । स्वर्णवर्णे सदोद्भासिसारालङ्कारराजिते सूरिभिः सततं ध्येये तेषामिष्टप्रसाधिके । सर्वविघ्नावलीघातनिघ्ने रक्षापरे सदा चतुर्विधस्य संघस्य सर्वोपद्रवनाशिनि । समाधानं सुबोधिं च सदा देहीष्टदे मम स्तूयमानमहानेकमुनिसुन्दरसंस्तवैः । स्तुते मयाप्यभीष्टाप्ति चक्रेश्वरी विधेहि मे
॥ इति चक्रेश्वरी देवी स्तोत्रम् ॥
118 11
॥२॥
॥३॥
11811
॥५॥
॥६॥
॥७॥
॥८॥
॥९॥
६९
Jain Education International For Private & Personal Use Only www.jainelibrary.org