________________
श्री पञ्चमपीठाधिष्ठायक स्तोत्र
॥४
॥
पञ्चमे गणभृद्विद्यापीठे श्रीमन्त्रनायके । प्रतिष्ठितान् सुरेन्द्रादीन् स्तुवे द्वेषिजयश्रिये
॥१॥ सौधर्मेन्द्रादयः कल्पाधिपा मे द्वादशवाञ्छितम् । ददतां चमरेन्द्राद्या भवनेशाश्च विंशतिः
॥२॥ दधुः कालमहाकालप्रमुखा व्यन्तरेश्वराः । श्रेयः संनिहिताद्याश्च मम षोडश षोडश
॥३॥ ज्योतिश्चक्राधिपाश्चंद्रसूर्याः सर्वग्रहान्विताः । रोहिण्याद्यास्तथा विद्यादेव्यः षोडश पान्तु माम् गोमुखप्रमुखा यक्षाः पान्तु शासनरक्षकाः । चक्रेश्वर्यादिदेव्यश्च मां चतुर्विंशतिः सदा सुराः संनिहिताः सर्वे सुर्यश्चेद्धप्रभावभाः । रेवतीरोहिणीनागार्जुनार्यखपुटादयः ।
॥६॥ यशोभद्रादयश्चापि सूरयो महिमार्णवाः । सिद्धश्रीसूरिमन्त्रा मे रान्तु विघ्नहृतोऽर्थितं
॥७॥ इति स्तुतगुणाः श्रीमन्मन्त्रराजप्रतिष्ठिताः । देवता ददतामिष्टं मुनिसुन्दरसूरये
॥८॥ ॥ इति श्रीगणधरमन्त्रपञ्चमपीठश्रीमन्त्रराजाधिष्ठायकस्तुतिः ॥
• ६८.
Jain Education International For Private & Personal Use Only
www.jainelibrary.org