________________
॥४॥
श्री श्रीदेवी स्तोत्र सुरराजैः चतुःषष्ठ्या, स्तूयमानगुणप्रभे। जय श्रीदेवि विश्वैकमातराश्रितवत्सले
॥१॥ हिमवच्छिखरे पाहदपद्मनिवासिनि । गौतमक्रमसेवैकरसिके विश्वमोहिनि
॥२॥ सूरिमन्त्रतृतीयोपविद्यापदनिवेशिते । सूरिराजहृदम्भोजविलासिनि चतुर्भुजे
॥३॥ श्रीचन्द्रप्रभभक्त्याऽतिपूते पद्माननेक्षणे । पद्महस्ते महारत्ननिधिराजिविराजिते गजयानेऽप्सरः श्रेणिगीतनाट्यादिरञ्जिते । सदाशिरोधृतछत्रचलच्चामरभासिते श्रीजैनशासनानन्तमहिमाम्बुधिचन्द्रिके। नानामन्त्रैः समाराध्ये सुरासुरनरर्षिभिः विजया-जया-जयन्ती-नन्दा-भद्राद्युपासिते । स्मृतिस्तवनपूजाभिः सर्वविघ्नभयापहे
॥७॥ विश्वकल्पलते लक्ष्मि सर्वालङ्कृत्यलङ्कृते । शुद्धबोधिसमाधानसर्वसिद्धी: प्रयच्छ मे
॥८॥ स्तूयमाने महानेकमुनिसुन्दरसंस्तवैः । स्तुते मयापि सर्वेष्टसिद्धि श्रीदेवि देहि मे
॥९॥ इति श्रीसूरिमन्त्रतृतीयपीठाधिष्ठात्र्या:श्रीलक्ष्मीमहादेव्याः स्तुतिः॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org